________________
च आदरश्च सन्मानश्च एषां समाहारस्तत् अलभमानमुनिः अननश्चासौ मुनिश्चेत्यलभमानमुनिः विनयादिकमलभमानो मुनिः । च्युतविकारललाटविभावतः विकारेण क्रोधादिजन्येन ललाटविभावो निटिलविकारः च्युतो दूरीभूतो विकारललाटविभावो यस्य तस्मात् तसिलन्तप्रयोगः । हि निश्चयेन अनिरादरो नास्ति निरादरो यस्य तथाभूतः ' अहमेतै र्निरादृतोऽस्मि' इति भावनारहितो भवति । गर्वातिरेकात्कश्चिद् व्रती अव्रती वा यदा मुनेर्विनयादिकं न करोति तदा स रुष्टो भूत्वा ललाटं भ्रुकुट्यादिना विकृतं न करोतीति भावः । । ७९ । ।
अर्थ - अहंकार के कारण अव्रती तथा व्रतीजनों के द्वारा विनय, स्तुति, पूजन एवं आदर को प्राप्त न होने वाला मुनि अपने आपका अनादर नहीं मानता और न क्रोध आदि से ललाट के ऊपर कोई विकार प्रकट करता है ||७९/
1
८०]
जगति सत्त्वदलः सकलश्चलः, परिमलो विकलः सकलोऽचलः । 'समगुणैर्भरितो मत आर्य! ते, गुरुरयं स लघुर्व्ववधार्यते । ।
· जगतीति - हे आर्य! हे भगवन्! ते तव मते सिद्धान्ते जगति भुवने चलः चलनशीलः, अचलः स्थावरः परिमलः सौगन्ध्ययुक्तः, विकलः कलाहीनः, सकल: कलासहितः इत्थं सकलः समस्तः सत्त्वदलः प्राणिसमूहः समगुणैः द्रव्यार्थिकनयेन तुल्यगुणैः भरितो विद्यत्त इति शेषः । अतोऽयं गुरु स लघुः इति नु कथं अवधार्यते निश्चीयते ? गुणैः समानत्वेऽयं नमस्कार्योऽयञ्च नमस्कर्तेति कथं निर्धार्यते ? अतः केन चिन्नमस्काराद्यभावे मुनिना रोषो न कर्तव्य इति भावः । । ८० ।।
अर्थ - हे आर्य ! आपके मन में त्रस, स्थावर, सुगन्धित, कलाहीन और कलासहित - सभी प्राणि समूह (द्रव्यार्थिकनय की अपेक्षा) समान गुणों से परिपूर्ण हैं; अतः 'यह गुरु है और वह लघु हैं यह कैसे निश्चित किया जाय ? | |८०||
[८१]
यदि यदा विनये मिलिते सति, मदमिता न मतिः सुमते सती । निजकगर्भगताखिलमानता, प्रलयकाय तु दक्षतमा नता ।।
यदीति - विनये समादरे मिलिते प्राप्ते सति यदा यस्मिन् काले मतिः साधोः बुद्धि: मदं गर्व न इतान प्राप्ता किन्तु सुमते शोभनसिद्धान्ते सती विद्यमाना भवति तर्हि तदा सा श्रेष्ठा कथ्यते । निजकगर्भ गताखिलमानता निजकस्य स्वात्मनो गर्भं गताः प्राप्ताः अखिला ज्ञानपूजादिसमुत्पन्नाः सर्वे माना अहंकारा यस्य तस्य भावः प्रलयकाय विनाशाय
(२५३)