________________
[७१]
यदि तृणं पदयोश्च निरन्तरं, तुदति लाति गतौ मुनिरन्तरम् । तदुदितं व्यसनं सहते ऽञ्जसा-हमपि सच्च सहे मतितेजसा । ।
यदीति यदि चेत् तृणं कण्टकादिकं पदयोश्चरणयोर्निरन्तरं सततं तुदति पीडयति। गतौ गमनेऽन्तरं व्यवधानं लाति ददाति करोतीत्यर्थः तर्हि मुनिस्तदुदितं तृणादिजन्यं व्यसनं दुःखम् अञ्जसा याथार्थ्येन सहते । अहमपि मतितेजसा ज्ञानप्रतापेन तच्च तृणादिस्पर्शजन्यं व्यसनं सहे संवेद्भिः । । ७१ ।।
अर्थ - यदि कण्टकादि तृण पैरों में निरन्तर पीड़ा करता है और गति में अन्तरव्यवधान लाता है तो गुनि उससे उत्पन्न कष्ट को वास्तव में सहन करते हैं। मैं भी भेदज्ञान के प्रताप से उस विद्यमान कष्ट को सहन करता हूं । । ७१ ।।
-
[७२]
विकचपुष्पचया विलसन्ति ते, परिवृता अलिभिस्त्विह सन्ति तैः । विषमशूलतृणादिहता विधे ! ह्यविकला न चलाः सुगता विधेः ।।
विकचेति हे विधे! हे ब्रह्मन् ! इह जगति तैः प्रसिद्धैः सुगन्धग्राहिभिः अलिभिर्भ्रमरैः परिवृताः परीताः विकचपुष्पचयाः विकसितपुष्पसमूहाः विलसन्ति शोभन्ते । तु किन्तु ते विषमशूलतृणादिहताः तीक्ष्णकण्टकतृणप्रभृतिविद्धा अपि हि निश्चयेन अविकला अव्यग्राः प्रसन्ना इति यावत् सन्ति विद्यन्ते सुगताः सुष्ठु गतं येषां ते स्वप्रमुदिताः ते विधेः स्वकार्यात् चलाः च्युताः न सन्ति । यदा सुकोमलाः पुष्पसमूहा अपि कण्ठकादिविद्धाः सन्तो विहसन्ति तदास्माकं कठिनतनूनां का वार्तेति भावः । । ७२ ।।
अर्थ - तृणस्पर्श आदि की वाधा उपस्थित होने पर मुनि विचार करते हैं कि हे ब्रह्मन्! इस जगत् में सुगन्धलोभी भ्रमरों से घिरे जो विकसित पुष्पों के समूह सुशोभित हो रहे हैं वे विषम कण्टक तथा तृण आदि से आहत - विद्ध होकर भी दुःखी नहीं होते हैं और न अपने कार्य से विचलित होते हैं ||७२||
[७३]
विचरणे शयनासनयोः सतः, सुखमुदेति सुखात् मृगयो ! षतः । शमसुखोदधिरेव वागतः, स्वकवते जगते बहिरागतः । ।
विचरण इति - हे मृगयो ! हे ब्रह्मन् ! ' मृगयुर्ब्रह्मणि प्रोक्तः' इति विश्वलोचनः । षतो गच्छतः सतः साधोः 'सत् साधौ विद्यमानेऽपि' इति विश्वलोचनः विचरणे विहारे शयनासनयोः शयनं चासनं च तयोः सुखात् सुखमुदेति प्रतिक्षणं
(२४६)