________________
अनिवारकाः । अकुशलाध्वचलत्पदलोहिताः अकुशले अश्रेयसि कण्टकादिकीर्णेऽध्वनि मार्गे चलद्भिः पदैश्चरणैः लोहिता निःसरद्रुधिर क्तवर्णाः सुधियो मुनयो यदा भवन्ति तदा ते किमु अन्तरे हृदयमध्ये लोहिता रक्ता भवन्ति ? अपि तु न । विरक्तान्तःकरणा एव चर्यापरिषहं सोढुं शक्नुवन्तीति भावः । । ४१ ।।
अर्थ - जिन्होंने सब प्रकार के पादत्राण-जूता-चप्पल आदि छोड़ दिये ८, जो पैदल चलने से खेद को प्राप्त हैं, आपत्ति से अपनी रक्षा-बचाव नहीं करते हैं तथा अकुशल-कण्टकादि से व्याप्त मार्ग में चलने वाले पैरों से लहूलुहान हो रहे हैं. मे विवेकी मुनिराज क्या उस समय अपने अन्तःकरण में लोहित-रागी होते हैं ? अथात् नहीं ।।४१।।
[४२] कमलकोमलकौ ह्यमलौ कलौ, ह्यभवतां सुपदौ सबलौ कलौ। इति विचार्य तनौ भव मा रतः, स्मर कथा सुपदां सुकुमारतः।।
कमलेति - सुकुमारस्वामिनः कमलकोमलको कमलवन् मृदुलौं, अमलौ मलरहितौ, कलौ मनोहरौ सुपदौ शोभनचरणौ कलौ कलिकाले हि निश्चयतः सबलौ बलसम्पन्नौ अभवताम् जातौ । इत्येवं विचार्य हे साधो! तनौ शरीरे रतो लीनः समासक्तः मा भव नो एधि। किन्तु सुकुमारतः सुकुमारस्य सार्वविभक्तिकस्तसिल सुपदां शोभनपदप्रदायिनीं सुन्दरपदावलिसहितां वा कथां स्मर स्मृतिपथमानय । सुकुमारस्वामिनः कथां स्मृत्वा चर्यापरिषहं समतया सहस्वेति भावः । । ४२ ।।
अर्थ - सुकुमाल स्वामी के कमल के समान कोमल, निर्मल और मनोहर सुन्दरचरण कलिकाल में सबल-शक्तिसंपन्न हुए थे, ऐसा विचार कर हे साधो ! शरीर में रत-लीन न होओ, उनकी उत्तमपद-प्रदायिनी अथवा सुन्दरपदावलि से युक्त तथा का स्मरण कर।।४२।।
समधिरोहितबोधसुयानका स्तनुसुखावहविस्मृतयानकाः । पथि चलत्स्वतनोः किल दर्शकाः, तयिति सन्तु जयन्तु तु दर्शकाः ।।
___समधीति - समधिरोहितबोधसुयानकाः बोध एव सम्यग्ज्ञानमेव सुयानं सुवाहनं, समधिरोहितं समधिष्ठितं बोधसुयानं यैस्ते। तनुसुखावहविस्मृतयानकाः तनुगुखावहं शरीरसुखदायकं विस्मृतं यानं यैस्तथाभूताः। पथि मार्गे चलत्स्वतनोः चलन्ती या स्वतनु तस्याः किल दर्शका दर्शनकर्तारः एवं भवन्ति तेभ्य: केमपि साहाय्यं नाकाक्षात
(२३६)