________________
स्वच्छन्दं यथास्यात्तथा चरति भ्रमतीति तथा शश्वत्स्वच्छ चारिणी। मदमोहिता मदेन गर्वेण मादकद्रव्यसेवनजनितविभ्रमेण वा मोहिता मोहयुक्ता अस्ति, इति हेतोः या स्त्री प्रमदा प्रकृष्टो मदो यस्याः सा इत्थम् आप्तयमोदिता आप्तस्य जिनेन्द्रस्य यमे संयमे उदिता कथिता। जिनागमे प्रमदा नाम्ना प्रसिद्धेत्यर्थः। सा स्त्री यदि विजने एकान्ते बने स्मितभाषया मन्दहसितवाण्या वदति स्पष्टं ब्रवीति तर्हि यतिः विभाषया निर्ग्रन्थश्रमणपदविरुद्धभाषया युक्तो नास्तु न भवतु । यतिस्तथोक्तप्रमदया सह विजने वार्तालापं न विदधात्विति भावः ।।३७।।
अर्थ - यतश्च जो स्त्री निरन्तर स्वच्छन्द मती है और मद से मोहित होती है उसे जिनेन्द्र के संयम में 'प्रमदा' कहा गया है। ऐसी स्त्री मुसक्याती हुई निर्जन वन में सराग वाणी से यदि कुछ कहती है तो साधु अपने पद से विरुद्ध भाषा से युक्त न हो अर्थात् उससे बात न करे ||३७||
[३८] विमलरोचनभासुररोचना, विलसितोत्पलभासुररोचना। जनयितुं विकृतिं न हि सा क्षमा, ह्यविचलात्र यतौ सरसा क्षमा।।
विमलेति - विलसितोत्पलभासुररोचना विलसितं शोभितं यत् उत्पलं नीलकमलं तद्वद् भासुरे रोचने लोचने यस्याः सा रलयोरभेदाद् रोचनशब्दस्य लोचनार्थे प्रयोग: 'यमकादौ भवेदैक्यं डलो बोर्रलोस्तथा' इत्युक्तेः। विमलरोचनभासुररोचना विमलमवदातं यद् रोचनं रक्तकमलं तद्वद् भा कान्ति र्यस्याः सा, तथाभूता सुररोचना सुरस्य देवस्य रोचना स्त्री देवाङ्गनेत्यर्थ: 'रोचनो रक्तकह्लारे कूट शाल्मलिशाखिनि। अपि गोपित्तमङ्गलरचितस्त्रीषु रोचना।।' इति विश्वलोचनः। सा तथोक्ता देववल्लभापि विकृतिं विकारं जनयितुमुत्पादयितुं हि निश्चयेन न क्षमा नो समर्था। यतो यस्मात् कारणात् क्षमाभूमिः सरसा कासारेण अविचला चलयितुमयोग्या भवतीति शेषः। 'क्षितौ क्षान्तावपि क्षमा। क्षमं युक्ते क्षमः शक्ते' इति विश्वलोचनः।। ३८।।
अर्थ- सुशोभित नीलकमल के समान सुन्दर नेत्रों वाली एवं निर्मल लालकमल के समान कान्ति से युक्त देवाङ्गना भी निर्ग्रन्थ साधु को विकार उत्पन्न करने समर्थ नहीं है क्योंकि क्षमा-पृथिवी सरोवर से अविचल ही रहती है ||३८।।
[३९] श्रमणतां श्रयता श्रमणेन या, त्वरमिता रमिता भुवनेऽनया। किमु विहाय सुधीरविनश्वरां, त्विह समामभिवाञ्छति नश्वराम्।।
(२३४)