________________
प्रसिद्धं शयनं शय्यां निश्चयतः अटेत् प्राप्नुयात् । हि यतः । उदयाचले अरुणे सूर्ये समुदिते सति उड्डुदलो नक्षत्रसमूहः खे विहायसि न हि आचलेत् आसमन्तात् चलेत् लुप्तो भवेदित्यर्थः । ।
अर्थ - हे सदय! दयायुक्तसाधो ! समयानुरूप शयन मुनि के लिये हितकारी है। इस तरह शयन ही शयन ( शय्या) को प्राप्त होता है। उचित ही है क्योंकि उदयाचल पर सूर्य के उदित होने पर नक्षत्र - समूह आकाश में सब ओर नहीं चलता किन्तु अस्त हो जाता है ।। ५२||
[५३]
उपगता अदयैरुपहासतां, कलुषितं न मनो भवहाः ! सताम् । शमवतां किमु तत् बुधवन्दनं, न हि मुदेऽप्यमुदे जडनिन्दनम् । ।
उपगता इति - हे भवहाः ! भवं संसारं जहातीति भवहास्तत्सम्बुद्धौ क्विबन्तः प्रयोगः । सन्तः सत्पुरुषाः अदयैर्दयारहितै र्जनैः । उपहासतामनादरतामुपगताः प्राप्ताः तथापि सतां साधूनां मनश्चित्तं कलुषितं मलिनं न भवतीति शेषः । तत् प्रसिद्धं बुधवन्दनं बुधैर्विद्वद्भिः कृतं वन्दनं बुधवन्दनं विद्वज्जननमस्कारः शमवतां साधूनां किमु ? किमस्ति न किमपीत्यर्थः। तेषां शमवतां साधूनां जडनिन्दनमज्ञजनकृतनिन्दनं न हि मुदे हर्षाय न हि अमुदे हर्षाभावाय भवतीति शेषः । । ५३ । ।
अर्थ- सत्पुरुष, निर्दय मनुष्यों के द्वारा उपहास - अनादर को प्राप्त होते हैं परन्तु 'उससे उनका मन कलुषित नहीं होता। विद्वानों का नमस्कार साधुओं के लिये क्या है ? अर्थात् कुछ भी नहीं है तथा अज्ञानीजनों के द्वारा की हुई निन्दा न उनके हर्ष के लिये होती है और न अहंर्ष- अप्रीति के लिये । । ५३||
[ ५४ ] कटुककर्कशकर्णशुभेतरं, प्रकलयन् स इहासुलभेतरम् ।
वचनकं विबुधस्त्विव विश्रुतिर्बलयुतोऽप्यबलश्च भुवि श्रुतिः । ।
कटुकेति आक्रोशपरिषहं सहभानो मुनिः कीदृग् भवतीत्याह - सः विबुधो विशिष्टज्ञानी मुनीश्वरः इह जगति असुलभेतरं सुलभं कटुककर्कशकर्णशुभेतरं कटुकं मर्मभेदि, कर्कशं कठोरं कर्णयोः शुभेतरमशुभं वचनकं निन्द्यं वचनं वचनकं विश्रुतिरिव बधिर इव प्रकलयन् गणयन् उपेक्षत इति शेषः । अत एव भुवि पृथिव्यां इति श्रुतिः प्रसिद्धा यदसौ मुनीश्वरः बलयुतोऽपि अबलो बलहीनः प्रतीयत इति । । ५४ । ।
अर्थ - आक्रोशपरिषह को सहन करने वाले ज्ञानी मुनिराज इस जगत् में सुलभ,
(२४१ )