________________
अर्थ- जो मद और ममता की हानि करने वाले हैं तथा जिन्होंने आत्मानुभव की वृद्धि को प्राप्त किया है, हे निरवद्य साधो ! आत्मा में स्थिरता प्राप्त करने के लिये मेरे द्वारा उन उपाध्याय परमेष्ठी की पूजा की जाती है ।। ७२ ।।
[७३]
सकलङ्क:स मितितयाऽभयाञ्चित एणाङ्को भसमितितया । अकलङ्कःसमितितयाऽऽहेतो वरः सुरसमिति- तया ।।
स एणाङ्कः भयाञ्चितः मितितया भया अञ्चितः, भसमितितया (अञ्चितः) (अतः ) सकलङ्कः (अयं उपाध्यायपरमेष्ठी) अकलङ्कः तया समितितया ( अञ्चितः) अभयाञ्चितः (तथा) सुरसमितितया अञ्चितः (अतः) वरः इति सुरसं इतः (जिनः आह) ।
सकलङ्क इति- सः एणाङ्क : चन्द्रः, भयाञ्चितः भययुक्तः, मितितया मितेर्भावो मितिता तया मानत्वेन, भया कान्त्या, अञ्चितः परिमितक्षेत्रे कान्तिसहित इत्यर्थः । 'मितिर्मानेऽप्यवच्छेदे' इति विश्वलोचनः, भसमितितया - भानि नक्षत्राणि तेषां समितिः सभा समूहो वा तस्याः भावस्तत्ता भसमितिता तया भसमितितया ( अञ्चितः) (अतः) सकलङ्कःकलङ्कसहितः (अयम् उपाध्यायपरमेष्ठी) अकलङ्कः:कलङ्करहितः, तया प्रसिद्धया, समितितया समितींनामीर्याभाषादीनां भावः कर्म वा समितिता तया, अथवा, समितेः साम्यस्य भावः समितिता तया, ( अञ्चितः) शोभितः, अभयाञ्चितः न भयेन भीत्या अञ्चितः सहितः (तथा) सुरसमितितया सुराणां देवानां समितिः सभा सङ्गमो वा, तस्याः भावः समितिता तया, अञ्चितः शोभितः 'समितिः सङ्गरे साम्ये सभायां सङ्गमेऽपि च' इति विश्वलोचनः ( अतः ) वर श्रेष्ठ, इति इत्थम्, सुरसं स्वभावम्, इतः प्राप्तः, जिन: आह - जिनेन्द्रः कथयामास ।। ७३ ।।
अर्थ- वह चन्द्रमा भय से अञ्चित - सहित है तथा सीमित भा कान्ति अञ्चित है, नक्षत्रों के समूह से अञ्चित है अतः सकलङ्क है, परन्तु यह उपाध्याय परमेष्ठी निर्भय हैं, असीमित आत्मज्ञानरूपी दीप्ति से सहित हैं, निष्कलंक हैं और देवसमूह से अंचित - पूजित हैं, अत: श्रेष्ठ हैं, ऐसा सुरस को प्राप्त जिनदेव ने कहा है | | ७३ ||
-
[७४] परपरिणतेरवनितः स्वात्मानं स्वागमं योऽवन्नितः । तेनाप्यते ह्यवनित- द्रव्यमुरसि निजमृषिभिर्वनित । ।
हे ऋषिभिः उरसि वनित ! यः परपरिणतेः अवनितः स्वात्मानं अवन् स्वागमं इतः तेन निजं अवनितद्रव्यं आप्यते ।
( १८१ )