________________
वसन्तर्तुना, मुदं हर्षम्, एति प्राप्नोति, (तथा) मम अयम् आत्मा, अधुना इदानीम्, मधुना ( अनेन जिनागमेन) जिनागमरूपक्षीरेण, मुदम् एति च ( अतः ) अन्येन (विषयवासनाप्रवर्धककामादिशास्त्रेण ) मधुना मद्येन, अलं पर्याप्तं, अस्तु । कदागमोपासना व्यर्थेत्यर्थः। 'मधुः पुष्परसे क्षौद्रे मद्यक्षीराप्सु न द्वयोः । मधुर्मधूके सरभौ चैत्रे दैत्यान्तरे पुमान्' इति विश्वलोचनः । । ७८ ।।
अर्थ- अनेक प्रकार के वृक्ष और लताओं से युक्त वन जिस प्रकार मधु - वसन्त हर्ष को प्राप्त होता है उसी प्रकार मेरा यह आत्मा इस समय जिनागंम रूप मधु-दूध हर्ष को प्राप्त हो रहा है। इसलिये अन्य विषयवासना को बढ़ाने वाले कामादिशास्त्र रूप मधु-मद्य की मुझे आवश्यकता नहीं है ।। ७८ ।।
[७९]
श्रयति श्रमणः समयं सममनसा समयति स समं समयम् । समेति निजवासमयं विस्मयोऽस्त्विह नो चिरसमयम् ।।
यः श्रमणः सममनसा समं समयं श्रयति स समयं समयति, निजवासं समेति, स इह ( भवे ) चिरसमयं अस्तु (अस्मिन् कार्ये) अयं विस्मयोऽपि नो अस्तु ।
श्रयतीति- यः श्रमणः साधुः सममनसा एकान्तदुराग्रहरहितचेतसा, समं सह, समयं सिद्धान्तं जिनागममिति यावत् श्रयति सेवते, स समयं शुद्धात्मानं सम्यग्ज्ञानं वा समयति सम्यक्प्रकारेण प्राप्नोति । निजवासं स्वस्मिन् निवासं स्वरूपरमणमिति भावः । समेति प्राप्नोति । स इह (भवे ) चिरसमयं चिरकालं ( यावत्) नो अस्तु नो भवतु शीघ्रं परीतसंसारपारावारो भवतु। ( अस्मिन् कार्ये) अयं विस्मयोऽपि आश्चर्यमपि नो अस्तु न स्यात् । ‘समयः पुंसि सिद्धान्तशपथाचारसंविदि' इति विश्वलोचनः। ‘साकं सत्रा समं सह' इत्यमरः । । ७९।।
अर्थ- जो मुनि मध्यस्थ- दुराग्रहरहित मन के साथ समय - आगम का आश्रय लेता है वह समय- आत्मा को प्राप्त होता है और वह इस संसार में चिरसमयदीर्घकाल तक नहीं रहे, यह आश्चर्य नहीं है ।। ७९ ।।
[ ८० ]
मुक्तास्ते प्रभावतः संभवन्ति जिना जनाश्च भावतः । रागादेर्विभावतस्त्वयि रतोऽकलये विभावतः । ।
(हे जिनागम!) ते प्रभावतः जनाः जिनाः संभवन्ति । भावतः मुक्ताः संभवन्ति, रागादेः विभावतः च (मुक्ताः संभवन्ति) अतः अकलये विभौ त्वयि (अहं) रत: ( भवामि ) |
( १८४ )