________________
वैद्य इति- 'अङ्ग' इति सम्बुद्धिवाचकम्, हे भव्यजना! इति यावत्, रोगविनाशी रुगपहारी, वैद्य इव भिषगिव, हि निश्चयेन, अयम् उपाध्यायपरमेष्ठी, कामविदारकः स्मरविनाशकः, स्वयं कामप्रदायकः इच्छितवस्तुदायकः अस्तीति शेष: । अतः अस्मात्कारणात्, वो युष्माकं जनानां वन्द्यो वन्दनीयः (अस्ति) 'कामः स्मरेच्छयोः काम्ये' इति विश्वलोचनः ।। ७६ ।।।
अर्थ- अङ्ग! हे भव्यजनो! रोग को नष्ट करने वाले वैद्य के समान यह उपाध्याय परमेठी.काम- मदन अथवा क- आत्मा के अम- रोगों के विदीर्ण करने वाले और काम-मनोरथों के देने वाले हैं अतः आप सब के वन्दनीय हैं||७६ ।।
[७७] तं जयताजिनागमः श्रय श्रेयसो न येन विना गमः ।
न हि कलयति मनागगस्त्वां मदो यद् भवेऽनागमः ।। येन विना श्रेयसः गमः न (सः) जिनागमः जयतात्, तं (जिनागमं) (त्वं) श्रय, यत् त्वां मद: अग: मनाक् न हि कलयति (तदा स्वयं ) भवे अनागमः (स्यात्।।
- तमिति - येन विना यमन्तरेण, श्रेयसो मोक्षस्य कल्याणस्य वा, गमः प्राप्तिः, न, भवतीति शेष: । (सः) जिनागमः जिनसिद्धान्तः, जयतात्। तं (जिनागमं) (त्वं) श्रय सेवस्व । यत् यस्मात् कारणात्, त्वां, मदो गर्वः, अगो भुजङ्गः, मनाग ईषदपि, न हि कलयति न हि प्राप्नोति, (तदा स्वयं) भवे संसारे, अनागमः आगमनम् आगमः न विद्यते आगमो यस्य स अनागम: (स्यात्) निर्गर्वतया जिनागमाभ्यासेन संसारे पुनरागमनं न भवतीत्यर्थः । 'अगः स्यान्नगववृक्षे शैले भानुभुजङ्गयोः' इति विश्वलोचनः ।।७७।।।
अर्थ- जिसके बिना श्रेय-मोक्ष अथवा कल्याण का मार्ग नहीं मिलता वह जिनागम जयवंत रहे| तू उस जिनागम का आश्रय ले जिससे तुझे अल्प भी अहंकार प्राप्त न हो और यह सब होने पर तेरा संसार में आगमन नहीं हो ||७७।।
[७८] अन्येनालं मधुना वनं विविधतरुलतान्वितं मधुना ।
मुदमेति यथा मधुना ममात्मानेन चायमधुना ।। विविधतरुलतान्वितं वनं यथा मधुना मुदं एति (तथा) मम अयं आत्मा अधुना मधुना (अनेन) (जिनागमेन) मुदं एति च (अतः) अन्येन (विषयवासनाप्रवर्धककामादिशास्त्रेण) मधुना अलं (अस्तु)। अन्येनेति- विविधतरुलतान्वितं नानावृक्ष वल्लीसहितं, वनं काननं, यथा मधुना
(१८३)