________________
मुक्तिलक्ष्मी दृष्ट्वा स्त्रीस्वभावात् मात्सर्येण कुपिता तृषा यतिं नाङ्गीकुरुत इत्युत्प्रेक्षा।।११।।
अर्थ - यतश्च इस जगत् में प्रशमगुण से सहित, संसार से भयभीत एवं अनेक गुणों से युक्त मुनि के आगे मुक्तिलक्ष्मी प्रसन्न होती हुई विलसती है। अतः उसे सहन न करने वाली तृषारूपी स्त्री कुपित होकर मुनि के पास नहीं रहती। ईर्ष्यावश मुनि के पास नहीं आती।।११।।
[१२] नहि करोति तृषा किल कोपिनः, शुचिमुनीनितरो भुवि कोऽपि न। विचलितो न गजो गजभावतः, श्वगणकेन सहापि विभावतः।।
नहीति - भुवि पृथिव्याम्। तृषा पिपासा। शुचिमुनीन् निरवद्यचर्योपेतयतीन् कोपिनः क्रोधयुक्तान् न हि करोति नैव विदधाति । इतरस्तृषाभिन्नः कोऽपि कश्चिदपि तान् कोपिनो न करोति। किलेति वाक्यालंकारे। गजोऽपि मतगजोऽपि श्वगणकेन शुनां गण एव श्वगणक- स्तेनकुक्कुरसमूहेन सह विभावतः क्रोधादिविकारपरिणामात् गजभावतः गजस्वभावाद् विचलितो न भवति। कुक्करगणैर्भष्यमाणो गजो यथा स्वगाम्भीर्यं न त्यजति तथा पिपासादिपीडितः श्रमणः स्वपदाद् विचलितो न भवतीति भावः ।।१२।।
अर्थ - पृथिवी पर निर्दोषचर्या करने वाले मुनियों को पिपासा तथा अन्य कोई भी पदार्थ कुपित नहीं करता। जैसे हाथी कुक्कुरसमूह के द्वारा तंग किये जाने पर भी क्रोधवश अपने गजस्वभाव-गम्भीर भाव से विचलित नहीं होता ।।१२।।
. [१३] शमनिधौ निजचिद्विमलक्षिते- र्व्ययभवधुवलक्षणलक्षिते। यदि यमी तृषितः सहसा गरेऽ- वतरतीव शशी किल सागरे।।
शमेति - यदि चेद् यमी यमः संयमो विद्यते यस्य सः साधुः जातुचित् गरे गले रलयोरभेदात् 'यमकादौ अवेदैक्यं डलोर्वबोरलोस्तथा' इति वचनात् तृषितः तृषा संजाता यस्य तथाभूतः पिपासायुक्तो भवेत्तर्हि सः सहसा झटिति सागरे समुद्रे शशीव चन्द्र इव व्ययभवध्रुवलक्षणलक्षिते व्ययोत्पादध्रौव्यलक्षणसहिते निजचिद्- विमलक्षितेः स्वकीयचैतन्यनिर्मलवसुधाया अन्तर्विद्यमाने शमनिधौ प्रशमकोषे अवतरति वगाहते
(२२२)