________________
कनकतामिति - यथा अनलयोगतो वह्निसंयोगात् दृशदः स्वर्णपाषाणः कनकतां सुवर्णतां प्राप्नुवन्ति तथा अनया क्षुधागताः युक्ता मुनयः शुचिं निर्मलताम् । इताः प्राप्ताः। शिवपथि मोक्षमार्गे क्षुधापरिषहः। जितचित्तभुवा जितः पराभूतः चित्तभूः कामो येन तेन कामविजयिना मुनिना अभिनुता संस्तुता। इतीत्थं धा ब्रह्मणा जिनेनेति यावत् निजवाक्षु स्वकीयभारतीषु उदिता कथिता प्रकटितेति यावत्। धास्तु धातरि' इति विश्वलोचनः।।७।।
अर्थ - जिस प्रकार अग्नि के संयोग से स्वर्णपाषाण स्वर्णता को प्राप्त होते हैं उसी प्रकार इस क्षुधापरीषह के योग से मुनि शुचिता-निर्मलता को प्राप्त हुए हैं। कामविजेता मुनियों ने मोक्षमार्ग में इस क्षुधापरीषह की संस्तुति की है। ऐसा ब्रह्मा-जिनेन्द्रदेव ने अपनी वाणी में कहा है ।।७।।
[८] ननु कृतानशनेन तु साधुना, ह्यसमयेऽप्यशनं न हि साधु ना! स्वसमये वचसा शुचिसाधुना, निगदितं शृणु तन्मनसाऽधुना।।
नन्विति - ननु निश्चयेन कृतानशनेन कृतमनशनं येन तेन कृतोपवासेन साधुना यतिना असमये अकाले साधु निरवद्यमपि अशनं, ना न गृह्यते। इत्थं शुचिसाधुना वीतरागजिनेन्द्रेण स्वसमये स्वकीयागमे वचसा वाण्या निगदितं कथितं तत् अधुना साम्प्रतं त्वं मनसा चेतसा चित्तं स्थिरीकृत्येति यावत्। शृणु समाकर्णय।।८।।
अर्थ-निश्चय से उपवास करने वाले साधु को असमय में- चर्या के प्रतिकूल ' समय में निरवद्य भी आहार नहीं लेना चाहिये, ऐसा वीतराग साधु-जिनेन्द्रदेव ने अपने आगम में वचन द्वारा कहा है। उसे तुम इस समय मन लगाकर सुनो।।८।।
अनघतां लघुनैति सुसंगतां, सुभगतां भगतां गतसंगताम्। जितपरीषहकः सह को विदा, विदुरिहाप्यघकासह! कोविदाः।।
अनघतामिति - हे अघकासह! अघानि पापान्येव अघकानि तेषां असहस्तत्सम्बुद्धौ हे पापासहनशील! जितपरीषहकः जिताः परीषहा येन तथाभूतः परीषहाणां विजेतेत्यर्थः । क आत्मा। लघुना शीघ्रण ‘लघु क्षिप्रमरं द्रुतम्' इत्यमरः। अनघतां पापरहितताम्, सुसंगतां सुष्ठु संगो यस्य सुसंगस्तस्य भावस्तां सुसंगतिमित्यर्थः। सुभगतां सौभाग्यशालिताम्। भगतां ऐश्वर्ययुक्तताम् । 'भगं तु ज्ञानयोनीच्छायशोमाहात्म्यमुक्तिषु' इति विश्वलोचनः। गतसंगतां गतः संगः परिग्रहो यस्य स गत
(२२०)