________________
गतियति - ज्ञान की विश्रान्ति से रहित हैं अर्थात् अनन्तज्ञान से संपन्न हैं, यतितोयतः - इन्द्रियदमनरूप जल से सहित हैं और अखण्ड- समस्त विश्व को जानने वाले हैं उन सकल - परमौदारिक शरीर से सहित कर - सुखदायक, शान्तिविधायक जिनेन्द्र की मैं पूजा करता हूँ ||२||
[३]
शुचिचिते श्रमणोऽत्र समानतः, सुखशुभाशुभ दुःख समानतः । सयम-संयमभावविभावतः, श्रयमयेऽन्वितिरस्तु विभावतः । ।
शुचीति - अत्र जगति यः श्रमणः साधुः शुचिचिते शुद्धचैतन्यस्वभावाय समानतः सम्यक्प्रकारेण विनतोऽस्ति शुद्धचैतन्यं प्राप्तुं सदा तत्परोऽस्तीति भावः । सुखदुःखयोः शुभाशुभयोश्च समानतो माध्यस्थ्यात् सहितोऽस्ति । अतोऽस्मात्कारणात् सयमसंयमभावविभावतः यमेन यावज्जीवननियमेन सहितो यः संयमभावः चारित्रपरिणामस्तस्य विभावतः प्रभावतः । श्रयमये समालम्बरूपे विभौ भगवति मे अन्वितिः अनुगतिः अस्तु भवतु । । ३ ।
अर्थ इस जगत् में श्रमण - साधु निर्मल चैतन्यस्वभाव के लिये समानत - नीभूत है अर्थात् उसके लिये निरन्तर उद्यमशील है । सुख, दुःख, शुभ और अशुभ अवस्था में समानता से सहित है; अतः जीवनपर्यन्त के लिये धारण किये हुए संयमभाव के प्रभाव से आश्रय देने वाले उन विभु में मेरी अन्विति - अनुगति - भक्ति हो || ३ ||
[४]
समवलम्ब्य सतीं शुचिशारदां, विषयमार्दववल्लितुषारदाम् । यदिति पारिषहं शतकं वदे, बुधमुदेऽघभिदे शितसंविदे ।। समवेत विषयमार्दववल्लितुषारदां विषया एव पञ्चेन्द्रियभोगा एव मार्दववल्लयः कोमललतास्ताभ्यः तुषारं हिमं ददातीति तथाभूतां विषयेभ्यो निवृत्तिकारिणीम् । सतीं प्रशस्तां शुचिशारदां निरवद्ययजिनभारतीं समवलम्ब्य समाश्रित्य इति वक्ष्यमाणं यत् पारिषहं परिषहाणामिदं पारिषहं परिषहसम्बन्धिशतकं शतं प्रमाणं यस्य तत् शतकं शतश्लोकप्रमाणप्रकरणं वदे ब्रुवे तद् बुधमुदे विज्ञजनप्रमोदाय, अघभिदे पापपरिहाराय शितसंविदे समुज्ज्वलज्ञानाय भवत्विति शेषः । 'वदे' इत्यात्मनेपदप्रयोग आर्षः । । ४ । ।
1
अर्थ - विषयरूपी कोमललताओं को तुषार देने वाली प्रशस्त जिनवाणी का
(२१८)
-