________________
संज्ञस्तस्य भावस्तां निर्ग्रन्थताम्। विदा ज्ञानेन सह सार्धम् । एति प्राप्नोति।इतीत्थम् । इहापि लोकेऽपि कोविदा विद्वान्स: 'विद्वान् विपश्चिद्दोषज्ञः सन्सुधीः कोविदो बुधः'. इत्यमरः। विदुः विदन्ति ।।९।। __अर्थ - हे पाप को न सहन करने वाले मुनिराज! परीषहों को जीतने वाला जीव, इसी लोक में शीघ्र ही निष्पापता, सत्संगति, सौभाग्यशालिता, ऐश्वर्यसंपन्नता, और निर्ग्रन्थता को, सम्यग्ज्ञान को प्राप्त होता है, ऐसा विद्वान् जानते हैं - कहते हैं ।।९।।
[१०] निजतनोर्ममता वमता मता, मतिमता समता नमता मता। विमलबोधसुधां पिबताञ्जसा, व्यथति तं न तृषा सुगताज ! सा।।
निजेति - हे सुगताज! सुगतः सुज्ञातः अजो ब्रह्मा येन तत्सम्बुद्धौ । या तृषा निजतनोः स्वशरीरस्य ममतां ममत्वबुद्धिं वमता वान्तां कुर्वता मता स्वीकृता। या, मतिमता बुद्धिमता, समता नमता नमस्कुर्वता मता अनुमता । या च अञ्जसा परमार्थेन विमलबोधसुधां निर्मलज्ञानामृतं पिबता जनेन मता अङ्गीकृता। सा तृषा तं निजतनुममतां वमन्तं मतिमन्तं समतां नमन्तं निर्मलज्ञानामृतं च पिबन्तं जनं न व्यथति न पीडयति।।१०।।। __अर्थ - हे आत्मज्ञ ! शरीर की ममता को छोड़ने वाले, भेदविज्ञान से सहित, समता के प्रति नम्रीभूत और यथार्थरूप से निर्मलज्ञानामृत का पान करने वाले मुनि ने जिसे स्वीकृत किया है वह तृषा तथोक्त कार्य करने वाले मुनि को पीड़ित नहीं करती।
भावार्थ - जिसे शरीर के प्रति ममताभाव है, जिसने शरीर और आत्मा का भेदज्ञान प्राप्त नहीं किया है, जिसने समता भाव को आदर नहीं दिया है तथा जिसने ज्ञानामृत का पान नहीं किया है उसे ही तृषा दुःख देती है ।।१०।।
[११] शमवतोऽत्र यतेर्भवतो यतः, सभयतां गुणिनश्च सतो यतः । लसति मा पुरतो मुदिता सती, तदसहेति तृषा कुपिताऽसती ।।
शमवत इति - अत्र जगति यतो यस्मात् कारणात् । शमवतः प्रशमगुणोपेतस्य, भवतः संसारात् सभयतां भीरुतां यतः एतीति यन् तस्य गच्छतः, गुणिनो गुणवतः, सतः श्रेष्ठस्य यतेः श्रमणस्य पुरतोऽग्रे मा मुक्तिलक्ष्मीः मुदिता प्रहृष्टा सती लसति शोभते ततस्तस्मात् कारणात् तदसहा तस्या मुक्तिलक्ष्म्या असहा तां सोढुमसमर्था तृषा पिपासा कुपिता क्रुद्धा जाता। इति हेतोः असती अविद्यमानाऽभवत्। यतेः पुरस्ताद् विलसन्ती
। (२२१)