________________
यथार्थतः मम मुनेः हानिः हि निश्चयेन नास्ति । इति विचारेण तनोः शरीरात् अहं पृथग् अस्मि पृथग्भूतो वर्ते इति भावः ।।२६।।।
अर्थ - हे भवस्तुत! अज! हे समस्त संसार के द्वारा स्तुत ब्रह्मन् ! यदि वे खटमल तथा मच्छर आदि कुछ रुधिर पीते हैं तो पियें और वे सुखीजन यदि स्तुतिरूपी अमृत पीते हैं तो पिये , इस विषय में परमार्थ से मेरी हानि नहीं है; क्योंकि मैं शरीर से पृथग् हूँ।।२६।।
... [२७] मशकदंशक मत्कुणकादयः, प्रविकलाः क्षुधिता अनकादय ! स्वकममी प्रभजंतु नु कं कदा, त्विति सतामनुचिंतनकं कदा ।।
मशकेति - हे अनकादय! अकं पापं च अदया करुणाभावश्चेति अकादये, न विद्येते अकादये यस्य तत्सम्बुद्धौ हे जिन! मशकदंशकमत्कुण कादय: मशकदंशकखट्वामल्लादयः क्षुधिता: क्षुधायुक्ताः प्रविकलाः प्रकर्षेण विकला विह्वला: सन्ति, अमी एते स्वकं स्वकीयं कं सुखं क्षुधानिवृत्तिजन्यम् कदा कर्हि प्रभजन्तु प्राप्नुवन्तु। नु इति वितर्के। इति तु सतां साधूनामनुचिन्तनकं भूयोभूयश्चिन्तनकं, स्वार्थे कः कदा कस्मिन् काले भव त्विति शेषः । अथवा कद+आ इति च्छेदः आ कद! कं सुखं ददादीति कदस्तत्सम्बुद्धौ आ इति निपातः सम्बुद्धयर्थकः ।।२७।।
अर्थ - हे अनकादय! हे पाप और अदया से रहित जिनदेव! जो डांश, मच्छर तथा खटमल आदि जीव क्षुधा से युक्त हो अत्यन्त विकल दुखी हो रहे हैं ये अपने सुख को कव प्राप्त हों, साधुओं का ऐसा चिन्तन कव हो ।।२७।।
[२८] स्वपददं च पदं हि दिगम्बरं, निरुपयोग्यघदं तु धिगम्बरम्। इति विचार्य विमुञ्चितपाटकाः, शिवपथेऽत्र जयन्तु नपाटकाः।।
स्वपददमिति - हि निश्चयेन दिगम्बरं दिश एवाम्बरं वस्त्रं यस्मिन् तद् दिगम्बरं पदं स्वपददं स्वस्यात्मनः पदं ददातीति स्वपददं मुक्तिप्रदम्। अस्तीति शेषः। निरुपयोगि अनुपयोगि अघदं पापप्रदं अम्बरं वस्त्रं तु धिक् निन्दाहमित्यर्थः। इतीत्थं विचार्य विमुञ्चितपाटकाः परित्यक्तवस्त्राः नपाटकाः दिगम्बरा अत्र शिवपथे मोक्षमार्गे जयन्तु जयवन्तो भवन्तु।।२८।।
अर्थ - निश्चय से दिगम्बर पद ही आत्मपद-मोक्ष को देने वाला है। किन्तु अनुपयोगी तथा पाप को देने वाले वस्त्र को धिक्कार हो । ऐसा विचार कर जिन्होंने वस्त्र
(२२६)