________________
[२२] पतित पत्रकपादपराजितं, प्रतिवनं रविपादपराजितम्। मुनिमनो नु ततोऽस्त्वपराजितं, नमति चैष तकं स्वपराजितम्।।
पतितेति - पतितपत्रकपादपराजितं पतितानि पत्राणि पर्णानि येभ्यस्तथाभूता ये पादपा वृक्षास्तै राजितं शोभितम्। रविपादपराजितं रवेः सूर्यस्य पादैः किरणैः पराजितं पराभूतं प्रतिवनं वनं वनं प्रतीति प्रतिवनं प्रत्येकवनं तथाभूतम् अस्तु तथापि मुनिमनो निर्ग्रन्थश्रमणस्वान्तं ततस्तथाभूतावनात् अपराजितं अपराभूतम् अस्तु भवतु । नु वितर्के एषोऽहं स्वपराजितं स्वं आत्मानं पान्ति रक्षन्ति ते स्वपाः आत्मरक्षका ये गुणास्तै राजितं शोभितं तकं तं स्वार्थेऽकच् प्रत्ययः नमति नमस्करोति ।।२२।।
अर्थ - जब प्रत्येक वन पत्ररहित वृक्षों से युक्त तथा सूर्य की किरणों से पराभूत होता है तब मुनि का मन उससे अपराजित रहता है। उस शुष्क वन से भयभीत नहीं होता, किन्तु स्वप-राजित-आत्म रक्षक गुणों से सुशोभित रहता है। उन मुनि को यह स्तोता नमन करता है।।२२।। ...
[२३] परिषहं कलयन् सह भावतः, स हतदेहरुचिनिजभावतः । परमतत्त्वविदा कलितो यतिः, जयतु मे तु मनः फलतोऽयति।।
पस्षिहमिति - निजभावतः निजे स्वकीयशुद्धस्वरूपे भावः सद्भावस्तस्मात् हतदेहरुचिः हता नष्टा देहे शरीरे रुचि: प्रीतिर्यस्य सः। भावतः सह अभिप्रायेण सह सार्वविभक्तिकस्तसिल। मनोयोग पूर्वकमित्यर्थः परिषहं निदाघपरिषहं कलयन् सहमानः । परमतत्त्वविदा श्रेष्ठतत्त्वज्ञानेन कलितो युक्तः। अथवा परमतत्त्वविद्भिः आकलितः श्रद्धावनतः। स प्रसिद्धो यतिर्निर्ग्रन्थश्रमण: जयतु जयवान् भवतु। फलतः फलरूपेण स मुनिः मे मम मनः अयति प्राप्नोति । तं प्रति मम मनसि महानादरो वर्तत इत्यर्थः।।२३।। __अर्थ - आत्मस्वभाव में विद्यमान होने से जिनकी शरीर सम्बन्धी प्रीति नष्ट हो चुकी है, जो समीचीन अभिप्राय-ख्यातिलाभादि की भावना से रहित मन से परिषह को सहन कर रहे हैं तथा उत्कृष्ट तत्त्वज्ञान से सहित हैं वे मुनि जयवंत हों। इसके फलस्वरूप वे मुनि मेरे मन को प्राप्त हो रहे हैं अर्थात् मैं उनका निरन्तर ध्यान करता हूं।।२३।।
[२४] विषधरैर्विषमैर्विषयातिगः, परिवृतो व्रतवानदयातिगः । नहि ततोऽस्य तु किंचन मानसं, कलुषितं किल तच्छुचिमानसम् ।।
(२२७).