________________
(यदा) सागारकः अपि किल संसारं (सारं च) असारं मत्वा क्षुत्तृङ्जार्तेषु सारं वितरति (तदा) तत्कार्ये (प्रभोः प्रभावना) सा अरं हि अवतरति ।।
सागारकोऽपीति- (यदा) सागारकोऽपि गृहस्थोऽपि किल, संसारं जगत् , असारं सारहीनं, मत्वा क्षुत्तृड्जार्तेषु क्षुत्पिपासारोगपीडितेषु, सारं वित्तं धनमिति यावत, 'सारं न्याय्ये जले वित्ते' इति विश्वलोचनः। नितरति ददाति (तदा) तत्कार्ये सा (प्रभोः प्रभावना) धर्मप्रभावना, हि निश्चयेन, अवतरति समुत्पद्यते। क्षुधादिपीडितेष्वन्नादि वितरणेन गृहस्थजनकृता धर्मप्रभावना भवतीति भावः ।।९।।
अर्थ- जो गृहस्थ भी संसार को असार मान कर भूख, प्यास तथा रोग से पीड़ित मनुष्यों पर धन वितरण करता है तब उस कार्य में वह प्रभावना – शीघ्र अवतीर्ण होती है । दीन दुःखी जीवों पर दयादृष्टि से दान देना भी जिन धर्म की प्रभावना होती है।।९।।
[९१] शिष्याः स्युस्तके तव शशिशितवृषयशः प्रसारकेतवः । .
दृग्विद्चरितकेतवः कुमतवनाय धूमकेतवः ।। हे! (जिन!) तव तके शिष्याः शशिशितवृषयश: प्रसारकेतवः कुमतवनाय धूमकेतवः दृग्विद्चरितकेतवः च स्युः ।।
शिष्या इति- हे!(जिन!) तव भवतः, तके ते एव तके अकच्प्रत्ययान्तप्रयोगः, शिष्याः, शशिशितवृषयशःप्रसारकेतवः शशिशितं चन्द्रवच्छुक्लं यत् वृषयशः धर्मकीर्तिः तस्य प्रसारे प्रसारणे केतवः ध्वजाः, कुमतवनाय मिथ्यामत काननाय, धूमकेतवः अग्नयः, दृग्विद्चरितकेतवः दृक् च विच्च चरितं चेति दृविच्चरितानि सम्यग्दर्शनज्ञानचारित्राणि तान्येव केतवश्चिह्नानि लक्ष्माणि वा येषां तथाभूताः च स्युः भवेयुः। हे भगवन्! त्वदीयाः शिष्याः सम्यग्दर्शनज्ञानचारित्रयुक्ता भूत्वा सर्वथैकान्तमतनिराकरणं कृत्वा त्वदीयोज्ज्वलधर्मयश: - प्रसारका भवन्त्विति भावः। 'केतुर्ग्रहान्तरोत्पातद्युतिलक्ष्मध्वजादिषु' इति विश्वलोचनः। 'अग्न्युत्पातौ धूमकेतू' इत्यमरः । ‘शितः कृष्णे सिते भूर्जे' इति विश्वलोचनः ।।९१ ।।
अर्थ- हे जिन! आपके वे शिष्य, चन्द्रमा के समान उज्ज्वल यश का प्रसार करने के लिये केतु-पताका, मिथ्यामतरूप वन के लिये धूमकेतु-अग्नि और दर्शनज्ञान-चारित्र रूप केतु - चिन्हों से सहित होवें ।।९१।।
(१९०)