________________
निशाकरस्तु दोषाणाम् आकरः सदोषः अयं तु दोषातीतोऽस्ति । स तु निशायामेव लसतु, . अयं तु सर्वदा विलसतु, स तु कामिनः तोषयति दुःखीकरोति च अयं तु वैराग्यधारिणो मोदयति कामिनो विषयाभिलाषिणो वा दुःखीकरोति। इत्यनयोर्विशेषभेदोऽस्ति। ततोऽयं संवेग एव पूज्य आदरणीयः स तु न ||३२।।
___ अर्थ- हे समस्त दोषों से रहित जिनेन्द्र! यह संवेगभाव, चिदानन्द- आत्मानन्द को प्रकट करने के लिये उषाकर - प्रभातकाल है, सदा उषाकर है- कामी मनुष्य को दुःख देने वाला है और दोषाकर-अवगुणों की खान नहीं है, अतः सुशोभित हो, किन्तु दोषा-रात्रि में दोषाकर-चन्द्रमा सुशोभित न हो ||३२।।
[३३] जितको दृग्भयानकः पापाब्धिवाडवोऽयं भयानकः ।
अवतीति विभया न कश्चञ्चलमनोमृगभयानकः।। हे विभयाः! अयं (संवेगः) दृग्भया जितकः अनकः भयानकः पापाब्धिवाडवः चञ्चलमनोमृगभयानकः च इति कः न अवति?
जितक इति- हे विभयाः! विगतं भयं येषां ते तत्सम्बुद्धौ हे निर्भीका जिनाः! अयं (संवेगः) दृग्भया दृशः सम्यग्दर्शनस्य भा दीप्तिः दृग्भा तया, जितकः जितः पराजितः कः सूर्यो येन सः 'को ब्रह्मानिलसूर्याग्नियमात्मद्योतबर्हिषु' इति विश्वलोचनः। अनक न विद्यते अकं दुखं पापं वा यस्मिन् स: अनकः। भयानकः भयंकरः पापाब्धिवाडवः पापपयोधिवडवानलः। चञ्चलमनोमृगभयानक चञ्चलमन एव मृगो हरिणस्तस्य भयानक शार्दूल: 'भयानकस्तु शार्दूले सैहिकेये विभीषणे' इति विश्वलोचनः। च समुच्चये। इतीत्थं कः न अवति जानाति? अपि तु सर्व एव जानाति ।।३३।। _. अर्थ- हे विभय! भय से रहित जिनेन्द्रदेव! यह संवेगभाव सम्यग्दर्शन की भा-दीप्ति से सूर्य को जीतने वाला है, पाप या दुःख से रहित है, भयानक है, पापरूप समुद्र को सुखाने के लिये वडवानल है और चञ्चल मनरूपी मृग के लिये भयानक शार्दूल है, यह कौन नहीं जानता ?।।३३।।
[३४] संसारदेहभोगेभ्यो भीतिर्भवति सतां परा ।
यत् सा सदेह भोऽघेभ्यो हीतिर्भवेऽमिता खरा ।। भो संसारदेहभोगेभ्यः सतां परा भीतिः भवेत् यत् इह भवे सदा अघेभ्यो अमिता खरा सा ईतिः (भवेत्।