________________
(अयं सूरिः) दुरितविषधाराधरः, सज्जनमयूरधाराधरः, कुविधिध्वंसधृतधृतिधाराधरः, योगैः च धाराधरः (अस्ति)।
योगैरति- (अयं सूरिः) दुरितविषधाराधरः दुरितं पापमेव विषं गरलमिति दुरितविषं तस्य धारा प्रवाह: धरतीति धरः न धरः अधरः, दुरितविषधाराया अधर इति दुरितविषधाराधरः। सज्जनमयूरधाराधरः सज्जना एव मयूरास्तेषां धाराधरो मेघः, कुविधिध्वंसधृतधृतिधाराधरः कुविधीनां दुष्टकर्मणां ध्वंसे विनाशने धृतः धृतिधाराधरः धैर्यकृपाणो येन सः, योगैः ध्यानैश्च धाराधरः धराधर एव धाराधरः पर्वतः (अस्ति) 'भवेद् धाराधरो वारिवाहिनिस्त्रिंशयोः पुमान्' इति विश्वलोचनः ।। ६८।।
अर्थ- यह आचार्य पापरूपी विष की धारा को धारण करने वाले नहीं हैं, सज्जन रूपी मयूरों के लिये धाराधर-मेघ हैं, दुष्ट कर्मों का विध्वंस करने के लिये जिन्होंने धैर्य रूपी खङ्ग को धारण किया है और ध्यान के द्वारा धाराधर-पर्वत हैं अर्थात् ध्यान धारण करने में पर्वत के समान स्थिर हैं।।६८।।
. [६९] ' यो ज्येष्ठमासंगतप्रतापिनः प्रताप्य पि मासं गतः।
गतः स्वे वासं गतः स निस्पृहो जयतात् संगतः ।। ज्येष्ठमासंगतप्रतापिनः अपि प्रतापी भासंगतः स्वे वासं गतः सङ्गतः निस्पृहो यः सः (सूरिः) जयतात्।
य इति- ज्येष्ठमासंगतप्रतापिनः अपि ज्येष्ठमासस्य सूर्यादपि, प्रतापी प्रतापयुक्तः, भासंगतः भासं कान्तिं गतः, अथवा भा दीप्तिः तया संगतः सहितः, स्वे स्वकीयशुद्धात्मनि वासं निवासं गतः प्राप्तः, सङ्गन्तः परिग्रहतः, निःस्पृहः निरीहः सः (सूरिः) जयतात् उत्कर्षेण वर्तताम् ।। ६९।।
.. अर्थ- जो ज्येष्ठमास के सूर्य से भी अधिक प्रतापी हैं, दीप्तिमान् हैं, स्वकीय आत्मा में निवास को प्राप्त हैं और परिग्रह से निःस्पृह हैं वे आचार्य जयवंत रहें।।६९।।
[७०] आचार्यस्य सदा भक्तिं भक्त्या ह्यये करोमि ताम् ।
वै चार्यस्य मुदा शक्तिं युक्त्याऽप्यये गुरोऽमिताम् ।। अये गुरो! आर्यस्य आचार्यस्य भक्तिं भक्त्या सदा हि करोमि वै युक्त्या मुदा तां अमितां शक्तिं अपि च अये।
आचार्यस्येति- अये गुरो! आर्यस्य अभ्यर्हितस्य पूज्यस्येति यावत् 'आर्यस्त्वभ्यर्हिते त्रिषु' इति विश्वलोचनः। आचार्यस्य सूरेः, भक्तिं आराधनां, भक्त्या, अनुरागातिशयेन, सदा सर्वदा, हि निश्चयेन करोमि, वै निश्चयतः, युक्त्या योजनेन तत्संपर्कवर्धनेनेत्यर्थ: 'युक्तिर्नियोजने न्याये पृथक्संयुक्तयोर्मतम्' इति विश्वलोचनः । मुदा
_ (१७६)