________________
ततः तदाप्त्यै (साधुसमाधिकरणाय) अहं भगतः अतिदूरं तिष्ठामि न तु भगतः हे वृषभ! भगत. अचलन् इह (त्वमपि) परमपदं गतः असि ।
तत इति- ततः तस्मात् कारणात् तदाप्त्यै तस्य साधुसमाधेः आप्त्यै प्राप्त्यै, अहं भगतः यशसः अतिदूरं तिष्ठामि न तु भगतः वैराग्यात्। हे वृषभ! हे आद्यजिनेन्द्र! भगतः धर्मतः अचलन नैव चलन् इह जगति (त्वमपि) परमपदं श्रेष्ठंपदं मोक्षमिति भावः। गतः प्राप्तः असि । 'भगं तु ज्ञानयोनीच्छायशोमाहात्म्यमुक्तिषु' इति विश्वलोचनः ।।५०।।
अर्थ- इसलिये उस साधुसमाधि की प्राप्ति के लिये मैं भग-यश से अतिदुर रहता हूँ, भग-वैराग्य से नहीं। हे वृषभजिनेन्द्र! भग-धर्म से विचलित न होते हुये आप भी परमपद को प्राप्त हुए हैं। ।५०।।
[५१] पवनो गतः परागं मुनिमितमिदमिव शस्यतेऽपरागम् ।
गता तव गी: परागं सुललनाकरलतेप! रागम् ।। हे ईप! परागं गतः पवनः, परागं गता सुललनाकरलता, तव गं गता (मम) परा गीः इव अपरागं मुनि इतं इदं (समाधिकरणं) शस्यते।
पवन इति- हे ईप! ईं लक्ष्मी पाति रक्षतीति ईपस्तत्सम्बुद्धौ हे लक्ष्मीपते! परागं पुष्परज: गतः प्राप्तः, पवन: समीरः, परागं लोहितवर्णमयागरागं, गता प्राप्ता, सुललनाकरलता सुस्त्रीपाणिवल्ली, तव भवतः, गं गीतं गता (मम) परा श्रेष्ठा गीः वाणी इव, अपरागं अपगतो विनष्टो रागो यस्य तं वीतरागं मुनिम्, इतं प्राप्तं, इदम् (समाधिकरणं) शस्यते प्रशंसितं भवति। 'परागः पुष्परजसि स्नानीयादौ रजस्यपि । विख्यातावुपरागेऽपि चन्दने पर्वतान्तरे'। 'गं गीते शास्त्रगातरि' इति च विश्वलोचनः।।५१।।
अर्थ- हे ईप! हे लक्ष्मीपते! जिस प्रकार पराग- पुष्परज को प्राप्त हुआ पवन, पराग - मेंहदी की लाली को प्राप्त हुई सुन्दर स्त्री की करलता और आपके गीत-गुणगान को प्राप्त हुई मेरी वाणी प्रशंसनीय है, उसी प्रकार अपराग-वीतराग मुनि को प्राप्त हुई यह साधुसमाधि भावना प्रशंसनीय है ।।५१ ।।
[५२] भव्यकौमुददोषेशः कामधेनुः सुरागकः ।
दिव्यविमुक्तिदोमेश मामटेन्नु तरां तु क ।। हे दिव्यविमुक्तिद!उमेश! क! भव्यकौमुददोषेशः कामधेनुः सुरागकः (साधुसमाधिकरणं) मां तरां अटेत् नु (निश्चये) तु (पादपूर्ती)।
(१७०)