________________
अपि (प्रभातु) 'निः स्यान्नित्यभृशाश्चर्यविन्यासक्षेपराशिषु' इति विश्वलोचनः ।।३०।।
अर्थ- हे जिनेन्द्र! आत्मा में स्थित शान्त धर्म से जिस प्रकार मुनिता (मुनिपद) सुशोभित होती है, चन्द्रमा से जिस प्रकार रात्रि सुशोभित होती है, शान्त रस से जिस प्रकार सुकवि की कविता सुशोभित होती है और प्रातःकाल से जिस प्रकार पक्षियों का कलरव सुशोभित होता है , उसी प्रकार संवेग से मुनि सुशोभित हो।।३०।।
[३१] भवोरुवनधनंजयः कर्मकौरवगर्वान्तधनंजयः । ।
ततो निजं धनं जय ह्ययं करणभेकधनंजयः ।। अयं (संवेगः) करणभेकधनंजयः कर्मकौरवगर्वान्तधनंजयः भवोरुवनधनंजयः (अस्ति) ततः निजं धनं हि (त्वं) जय ।
भवोरुवनेति- अयमेषः (संवेगः) करणभेकधनंजयः करणानि इन्द्रियाण्येव भेका मण्डूकास्तेषां धनंजयो नागः सर्प इति यावत्। कर्मकौरवगर्वान्तधनंजयः कर्माण्येव कौरवा दुर्योधनादयस्तेषां गर्वस्य दर्पस्य अन्ते विनाशने धनंजयः अर्जुनः। भवोरुवनधनंजयः भवः संसार एव उरुवनं विशालकाननं तस्मिन् धनंजयः अग्निः अस्तीति शेषः। 'धनंजयोऽग्नौ ककुभे नागदेहानिलेऽर्जुने' इति विश्वलोचनः। ततः करणात् निजं स्वकीयं धनं द्रविणं हि निश्चयेन (त्वं) जय आत्मसात्कुरु ।।३१।।
अर्थ- यह संवेग इन्द्रियरूप मेंढकों को नष्ट करने लिए धनंजय-नाग है, कर्मरूपी कौरवों के गर्व को नष्ट करने के लिये धनंजय-अर्जुन है और संसाररूपी वन को भस्म करने के लिये धनंजय-अग्नि है इसलिये आत्मधनस्वरूप संवेगभाव जयवंत हो।।३१।।
[३२] चिदानन्दोषाकरोऽयमशेषदोषोन ! सदोषाकरः ।
विलसत्वदोषाकरो दोषायां न नु दोषाकरः ।। अयं (संवेगः) अशेषदोषोन! चिदानन्दोषाकरः सदा उषाकरः अदोषाकरः अतः विलसतु (किन्तु) दोषायां दोषाकरः न नु (विलसतु)।
चिदानन्देति-अयं (संवेगः) हे अशेषदोषोन! अशेषैः समस्तैर्दोषैरवगुणैरूनो रहितस्तत्सम्बुद्धौ हे निखिलदोषातीत! चिदानन्दोषाकरः चिदानन्दस्य उषाकरः प्रभातकरः तस्मात् सदा सर्वदा उषाकरः उषाः कामिनः तेषां अकं दुःखं राति लाति इति कामवासनापीडितजनदुःखकरः, कामिनो निशायामेव सुखिनो भवन्ति दिवसे न
.
(१६०)