________________
[४२] तापसोऽतो विनाऽशं तपनतापतापिततनुर्विनाशम् ।
उद्गच्छतु भुवि ना शं विहाय विना शम् ।। अतः तपनतापतापिततनुः तापसः अशं विना विनाशं उद्गच्छतु भुवि नाशं विहाय विलम्बेन विना शं (उद्गच्छतु)। ___ तापस इति- अतः अस्मात्कारणात्, तपनतापतापिततनुः तपनस्य सूर्यस्य तापेन तापिता तनुः शरीरं यस्य सः तथाभूतः, तापसः साधुः अशं अहिंसां दयां विना विनाशं उद्गच्छतु प्राप्नोतु दयापरिणतिं विना तापनादियोगो व्यर्थ इत्यर्थः । भुवि पृथिव्यां ना पुमान्, शं हिंसां विहाय त्यक्त्वा, विलम्बेन विना, शीघ्रमित्यर्थः, शं धर्म कल्याणं (उद्गच्छतु) 'शः शतायुषि हिंसायां शं धर्मे ' इति विश्वलोचनः ।।४२।।
अर्थ- अतः सूर्य के संताप से संतापित है शरीर जिसका ऐसा साधु दया के विना विनाश को प्राप्त हो,पृथिवी पर मानव हिंसा को छोड़कर विलम्ब के विना – शीघ्र ही धर्म या कल्याण को प्राप्त हो ||४२।।
न याति लुञ्चिताङ्गजं परीषहजयिनं श्रीः कलिताङ्गजम् ।
वहन्तमविभुताङ्गजं सतां स्तुतिंगताऽजितागजम् ।। सतां स्तुतिंगत! अविभुताङ्गजं वहन्तं लुञ्चिताङ्गजं कलिताङ्गजं परीषहजयिनं अजिताङ्गजं श्रीः न याति ।
__ नेति- हे सतां साधूनां स्तुतिं स्तवनं गत प्राप्त! हे साधुस्तुत्य! अविभुताङ्गजं न विभुः अविभुः तस्य भावः अविभुता, अविभुता एव अङ्गजः रोगः तं वहन्तं धारयन्तं अप्रभुतारोगधारिणमिति भावः, लुञ्चिताङ्गजं लुञ्चिताः अङ्गजाः केशा येन तम् समुत्पाटितकेशमित्यर्थः, कलिताङ्गजं कलितो धृतः अङ्गजः स्वेदो येन तम् परीषहजयिनं परीषहाः क्षुत्पिपासादयस्तान् जयतीति परीषहजयी तम्, अजिताङ्गजं अजितो न पराजितः अङ्गजः कन्दर्पो येन तम्, श्रीः बाह्याभ्यन्तरलक्ष्मीः न याति न प्राप्नोति । 'अङ्गजः केशकन्दर्प पदे पुढे गदे स्वजे' इति विश्वलोचनः । स्वजः स्वेद इत्यर्थः । । ४३ ।।
अर्थ- हे साधुस्तुत्य! जो अविभुता रूप अङ्गज-रोग को धारण कर रहा है, जिसने अङ्गज-केशों का लोंच किया है, जो अङ्गज - पसीना को धारण किये हुए है, जो परीषहों को जीतने वाला है किन्तु अङ्गज-काम को जिसने नहीं जीता है ऐसे साधु को बहिरङ्ग एवं अन्तरङ्ग लक्ष्मी प्राप्त नहीं होती ।।४३।।
• (१६६)