________________
अधिकं वसुकं गतं अतिघृतयुतं अपि वसुकं अन्नं (यथा) क्षुधां न शमयति तथा स्ववसुकं यियासो! श्रुतोनः (शास्त्रविरुद्धत्यागः) भवक्षुद्वसुकं न शमयति । - शमयतीति- अधिकं प्रचुरं रौमकं लवणमित्यर्थ: 'वसुकः शिवमल्ल्यां स्यादर्केपर्णेऽपि रोमके' इति विश्वलोचनः। रोमकं 'सांभरनमक' इति प्रसिद्धम्। गतं प्राप्तम्, अतिघृतयुतमपि प्रचुराज्ययुक्तमपि, वसुकं मधुरम् अन्नं खाद्यं (यथा) क्षुधां न शमयति न शान्तां करोति तथा स्ववसुकं आत्मधनं यियासोः यातुमिच्छोः जनस्येति शेषः। श्रुतोनः श्रुतेन शास्त्रेण शास्त्रोक्ताचारेण वा ऊनो रहितः शास्त्रविरुद्ध इत्यर्थः (त्यागः) भवक्षुद्वसुकं संसारक्षुदग्निं न शमयति न दूरीकरोति । 'वसुर्ना देवभेदे च योक्थे वह्नौ युधे त्रिषु। वसु वृद्धौषधे रत्नेऽपि श्यामे हट्टके धने ।। वाच्यवन्मधुरेऽपि स्यात्' इति विश्वलोचनः। वसु एव वसुकं स्वार्थे कप्रत्ययः ।। ३८।।
अर्थ- जिस प्रकार अधिक नमक और अधिक घी से युक्त होने पर भी अन्न क्षुधा को शान्त नहीं करता है; उसी प्रकार हे आत्मधन को प्राप्त करने के इच्छुक साधो! शास्त्रविरुद्ध त्याग भी संसार की भूखरूप अग्नि को शान्त नहीं करता है ।।३८।।
[३९] समुदिता सह साधुना समता-श्रीर्नेन वचसा साधुना ।
मयावसिता साधुना साधुनाऽसाधुना साऽधुना ।। । साधुना (वृद्धेन) नेन साधुना वचसा सह समताश्रीः समुदिता (किन्तु) साधुना (मुनिना) असाधुना . (यूना) साधुना (सुन्दरेण) मया सा अधुना अवसिता।
, समुदितेति- साधुना वृद्धेन, नेन जिनेन, साधुना श्रुतिमधुरेण, वचसा वचनेन सह समताश्रीः साम्यभावलक्ष्मीः समुदिता सम्यक्प्रकारेण कथिता प्राप्ता वा। (किन्तु) साधुना मुनिना, असाधुना अवृद्धेन यूनेत्यर्थः, साधुना सुन्दरेण, मया सा समताश्रीः, अधुना साम्प्रतम्, अवसिता मोहिता संसेविता सर्वाङ्गे बद्धा । मम पूज्यगुरुणाचार्यज्ञानसागरेण वृद्धेनापि सता समताश्रीः समासादिता मया पुनर्पूना शरीरसौष्ठवसहितेनापि सा समताश्रीः समापिता, इत्ययमर्थोऽत्र निगूढः प्रतिभाति । 'साधुर्वाधुषिके पुंसि चारुसज्जनयोस्त्रिषु' इति विश्वलोचनः ।।३९।।
. अर्थ- साधु-वृद्ध जिनेन्द्र और साधु-श्रुति मधुर अथवा पूर्वापर विरोध से रहित वचन के साथ समतारूपी लक्ष्मी प्रकट हुई थी परन्तु मुझ युवा साधु के द्वारा वह समतारूपी लक्ष्मी इस समय अवसित- समाप्त हो रही है ||३९।।
(१६४)