________________
[८] विराधनं न राधनं निदानमस्य केवलं नरा धनम् ।
ददाति सदाराधनं राधनं मुक्तिदाराधनम् ।। हे नराः! निदानम् अस्य (दर्शनस्य) विराधनम्, (निदानं) केवलं धनं ददाति, न राधनं (ददाति) (किन्तु) सदाराधनं मुक्तिदाराधनं राधनं च (ददाति)।
विराधनमिति- हे नराः! भो मानवाः! निदानं भोगाभिलाषः, अस्य (दर्शनस्य) विराधनं विघातकम्, (अस्ति) न राधनं मुक्तेः साधनं न भवति। (निदानं) केवलं धनं द्रविणं ददाति (किन्तु) सदाराधनं सताम् आराधनं सत्पुरुषाणामुपासनं, मुक्तिदाराधनम् मुक्तिदार एव आ-समन्तात् पूर्णमित्यर्थः धनं सुखसाधनम्, राधनं तुष्टिं (ददाति) दर्शनविशुद्धिभावनाबलेन नराः पञ्चपरमेष्ठिभक्तियुक्तं संतोषं लभन्त इत्यर्थः। 'राधनं साधने प्राप्तौ तोषणेऽपि च राधनम्' इति विश्वलोचनः ।।८।। - अर्थ- हे मानवो! निदान (भोगाभिलाषा) सम्यग्दर्शन का विघात करने वाला है। निदान, केवल धन देता है, संतोष नहीं देता, किन्तु सदाराधना-सत्पुरुषों की सेवा मुक्ति स्त्रीरूप पूर्णधन और संतोष को देता है ।।८।।
[९] जितमोहहारकेण व्यालसता शुचिनयमणिहारकेण ।
विना ह्यपि हारकेण प्राप्यते न व्यवहारकेण ।। . शुचिनयमणिहारकेण, व्यालसता, जितमोहहारकेण, हारकेण विना अपि इदं प्राप्यते (किन्तु) व्यवहारकेण न (प्राप्यते)। __जितेति- शुचिनयमणिहारकेण शुचिनयो निश्चयनय एव मणिहारो यस्य तेन समासान्तकप्रत्ययः। व्यालसता शोभमानेन, जितमोहहारकेण जितः पराजितो मोह एव हारकश्चौरो येन तेन, हारकेण विज्ञानविशेषेण विना अपि इदं (सद्दर्शनं) प्राप्यते (किन्तु) व्यवहारकेण कुत्सितो व्यवहारो व्यवहारकः निश्चयसांगत्यरहितत्वेन क्रियाकाण्डैकजीवनेन मात्रव्यवहारनयेन न हि (प्राप्यते) नहि लभ्यते। 'हारकस्तु शठे चौरे गद्यविज्ञानभेदयोः' इति विश्वलोचनः ।।९।। ___ अर्थ- जिसमें निश्चयनय मणिमय हार है, जो सुशोभित है तथा जिसने मोहरूपी चोर को जीत लिया है ऐसे हारक-विशिष्ट ज्ञान के बिना भी यह सम्यग्दर्शन प्राप्त होता है। किन्तु मात्र व्यवहारनय से नहीं प्राप्त होता ||९||
(१४६)