________________
[६]
मोहारे पराभवे कषायादेरपि दृशा पराभवे ।
यान्ति नराः पराभवेऽस्त्यजवागितीदं परा भवे ।। मोहारेः पराभवे (सति) दृशा कषायादे:-अपि पराभवे (सति) भवे पराः नराः इदम् (दर्शनविशुद्धिं) यान्ति इति भवे परा अजवाक् अस्ति ।।
मोहारेरिति- मोहारेः मोह एवारि शत्रुस्तस्य पराभवे तिरस्कारे सति मिथ्यात्वतिमिरापहरणे सतीत्यर्थः । दृशा सम्यग्दर्शनेन कषायादेरपि कषायप्रभृतेरपि अनन्तानुबन्धिक्रोधमानमायालोभादीनामपि पराभवे तिरस्कारे अनुदय इत्यर्थः। भवे महादेवे जिने वा परा रताः तत्पराः भगवद्भक्तिविनीता इत्यर्थः । नराः मनुजाः। इदं सामान्ये नपुंसकलिङ्गप्रयोगः दर्शनशुद्धिमित्यर्थः यान्ति प्राप्नुवन्ति । इतीत्थं भवे लोके परा उत्कृष्टा अजवाक् अजस्य जन्मातीतस्य भगवतः वाक् वाणी अस्ति विद्यते ।।६।।
अर्थ- मोहरूप शत्रु का पराभव होने पर तथा सम्यग्दर्शन के द्वारा कषाय आदि का भी पराभव होने पर संसार में श्रेष्ठता को प्राप्त हुए मनुष्य इस दर्शनविशुद्धि को प्राप्त होते हैं, ऐसी जिनेन्द्र भगवान् की उत्कृष्ट वाणी है ।।६।।
करुणाभाववसत्यां सद्भिरिदं सेवितायां वसत्याम् ।
लसतु मानव ! सत्यां वसतिपतिप्रभेव वसत्याम् ।। वसत्यां सत्यां क्सतिपतिप्रभा इव हे मानव ! सद्भिः सेवितायां वसत्यां करुणाभाववसत्यां (सत्यां) इदं(दर्शनीलसतु ।
करुणाभावेति- वसत्यां रात्रौ सत्यां वसतिपतिप्रभेव निशापतिकान्तिरिव हे मानव! सद्भिः सत्पुरुषः सेवितायां वसत्यां अवस्थितौ स्वकीयप्रवृत्तावित्यर्थः । करुणाभाववसत्यां करुणाभावस्य वसतिर्वेश्मनिवासस्थानं तस्यां (सत्याम्) इदं दर्शनं सम्यग्दर्शनं लसतु शोभताम् । 'वसतिः स्यान्निशावेश्मावस्थानेऽप्यर्हदाश्रमे' इति विश्वलोचनः ।।७।।
अर्थ- रात्रि होने पर जिस प्रकार चन्द्रमा की प्रभा सुशोभित होती है, उसी प्रकार हे मानव! सत्पुरुषों के द्वारा सेवित प्रवृत्ति में करुणाभाव की वसति-स्थिति होने पर यह सम्यग्दर्शन सुशोभित हो ||७|| .
(१४८)