________________
तस्मिन् भगवत्सम्बन्धिनि माने जाने वचसि सिद्धान्ते च रुचिं प्रीतिं श्रद्धां वा कुरु विधेहि। वाऽथवा भवे संसारे श्रेयसि वा मुधा व्यर्थं मा भ्रम भ्रमं संदेहं भ्रमणं वा नो कुरु । 'भवः श्रीकण्ठसंसारश्रेयःसन्ततिजन्मसु' इति विश्वलोचनः ।।५८।।
अर्थ- हे मुने! निश्चय से इस संसार में सुख नहीं है। तू किसी तरह अपने मोक्षरूप भव में अथवा वैभव-भगवत्सम्बन्धी ज्ञान और सिद्धान्त में रुचिकर, व्यर्थ ही संसार में मत भटक, अथवा भव -कल्याण के विषय में भ्रम - संदेह मत कर ||५८।।
[५९] ते यान्ति सुखं समये समावसन्ति हि सदाधिगतसम! ये।
दुःखं हि गते समये कार्यमपि च कृतं तदसमये ।। (हे) अधिगतसम! ये समये सदा समावसन्ति, हि, ते सुखं यान्ति | हि समये गते दुःखम्, असमये कृतं तत् कार्यम् अपि च (दुःखम्)।
त इति- हे अधिगतसम! अधिगतं प्राप्तं समं श्रेष्ठं येन तत्सम्बुद्धौ ‘समावर्षे सदृक्सर्वमान्येषु च समं त्रिषु' इति विश्वलोचनः। ये जनाः सदा सर्वदा समये स्वात्मनि सिद्धान्ते वा समावसन्ति सम्यक्प्रकारेण निवसन्ति तद्ध्यानं विदधतीति भावः। ते हि निश्चयेन सुखं शर्म यान्ति प्राप्नुवन्ति। हि यतः समये काले सिद्धान्ते गते सति दुःखं भवति। असमये अकाले कृतं तत्कार्यमपि दुःखं दुःखरूपं भवतीत्यर्थः । 'समयाः शपथाचारकालसिद्धान्तसं विदः' इत्यमरः ।। ५९।।
___अर्थ- हे अधिगतसम! हे श्रेष्ठ पदार्थों को प्राप्त करने वाले श्रमण! जो मुनि सदा समय-शुद्धात्मा में वास करते हैं- उसका ध्यान करते हैं वे निश्चय से सुख को प्राप्त होते हैं। क्योंकि समय – सिद्धान्त अथवा योग्यकाल के निकल जाने पर दुःख होता है, इसके सिवाय जो कार्य असमय - अयोग्यकाल में किया जाता है वह भी दुःखरूप होता है।।५९।।
[६०] - स्वं सुदृशाऽमागच्छममितगुणानां सदा समागच्छ ।
मा कमपि च मागच्छ वदावेति शीघ्रमागच्छ ।। अमितगुणानां गच्छं स्वं सुदृशा अमा सदा समागच्छ। “अत्र शीघ्रम् आगच्छ, (तत्र) मा गच्छ' - इति कम् अपि मा वद।
स्वमिति- हे मुने! त्वं अमितगुणानां अपरिमितगुणानां. गच्छं समूहरूपं स्वं शुद्धात्मानं सुदृशा सम्यग्दर्शनेन अमा साकं सदा सर्वदा समागच्छ प्राप्तं कुरु । 'अत्र शीघ्रं
(३०)