________________
प्राप्नोतु । हा खेदे। विशुद्धाहारी रत्नत्रयधारी च जनो मदनाग्निना न दह्यत इति भावः। 'रस्तु कामानले वह्नौ तीक्ष्णे' इति विश्वलोचनः। 'लघुक्षिप्रमरं द्रुतम्' इत्यमर ।।६४॥
___ अर्थ- जो मनुष्य शुद्ध सात्त्विक आहार को ग्रहण नहीं करता और न सदा रत्नत्रयरूपी हार को धारण करता है। हे कामाग्नि सम्बन्धी मानसिक दाह से रहित मुने! वह, खेद है दुःखदायक कामाग्नि को शीघ्र ही प्राप्त होवे ||६४।।
[६५] सुखिनः सुखे सखे न मरुत्सखाः खेचरोऽयुतः सखेन ।
नरो जिनदास! खे न ह्यार्तस्ततः स्वे वस खे न ।। सखे, जिनदास! मरुत्सखाः सुखे सुखिनः न सः खेचरःखेन अयुतः, नरःखेन आर्तः, ततः स्वे वस, खेन (वस)। - खुखिन इति- हे सखे जिनदास! मित्रजिनभक्त! मरुत्सखा मरुतां देवानां सखायो, मरुत्सखा । 'राजाहासखिभ्यष्टच्' इति टच् समासान्तः। इन्द्राः सुखे स्वर्गे 'सुखं शर्मण्यपि स्वर्गे' इति विश्वलोचनः। सुखिनः सुखसहिताः न सन्तीति शेषः। स प्रसिद्ध खेचरो विद्याधर खेन सुखेन 'खमाकाशे दिवि सुखे बुद्धौ संवेदने पुरे' इति विश्वलोचनः। अयुतो रहितोऽस्तीति शेषः। नरो मनुजो खेन पीडया हि यतः आर्तः पीडितः। ततः स्वे स्वस्मिन् शुद्धात्मस्वरूपे वस। खे इन्द्रिये जातित्वादेकवचनप्रयोगः। इन्द्रियेषु मा रमस्वेति भावः ।।५।।
अर्थ- हे मित्र! जिनदास! इन्द्र स्वर्ग में सुखी नहीं है, वह खेचर-विड्याधर सुख से रहित है और मनुष्य वेदना से पीड़ित है। अतः तू अपने आप में -शुद्धात्मस्वरूप में निवास कर, इन्द्रियों में नहीं ।।६५।। .
[६६] तप्त ! मनोभववसुना भव्य चिदनुभवसविन भव वसुना ।
तृप्तोऽलं भववसु ना स्यात् सुखीत्वा विद्भववसुना ।। भव्य! मनोभववसुना तप्त ! चिदनुभव सवेन वसुना तृप्तः भव, भववसुना अलम् ना विद्भववसु ईत्वा सुखी स्यात् ।
तप्तेति- मनोभववसुना मनोभवः काम एव वसुः अग्निस्तेन । 'वसुर्मयूखाग्निधनाधिपेषु' इति विश्वप्रकाशः । तप्त! संतप्त! हे भव्य! चिदनुभवसवेन चितोऽनुभव एव सवं जलं तेन 'सवं जलाढ्ययोः स्नाने' इति विश्वलोचनः। तृप्तो भव