________________
संतुष्ट एधि। भववसुना भवस्य संसारस्य वसु धनं स्वर्णादिकं माणिक्यादिकं वा तेन। 'वसु तोये धने मणौ' इति विश्वः। अलं पर्याप्तं निषेधार्थकोऽव्ययः। ना पुमान् विद्भववसु विद् ज्ञानमात्मा वा तद्भवं तदुत्पन्नं वसु धनं ईत्वा लब्ध्वा सुखी सौख्योपेतः स्यात् ।।६६।।
अर्थ- हे कामाग्नि से संतप्त भव्य! तू आत्मानुभवरूप जल से संतुष्ट हो जा, संसार के धन से वाज आओ। क्योंकि मनुष्य आत्मोत्थधन को पाकर सुखी हो सकता है ।।६६।।
[६७] जडजेन माऽक्षरेण कुरु किन्तु सम्बन्धममाऽक्षरेण ।
कलयतु विना क्षरेण न दवेन कुस्तप्ताऽक्ष ! रेण ।। जडजेन अक्षरेण सम्बन्धं मा कुरु, किन्तु हे अक्ष! अक्षरेण अमा (सम्बन्धं कुरु) । रेण दवेन तप्ता कुः क्षरेण विना न कलयतु।
जडजेनेति- हे अक्ष! अक्ष्णोति व्याप्नोतीत्यक्ष आत्मा तत्सम्बद्धौ हे आत्मन् ! त्वं जडजेन पौद्गलिकेन अक्षरेण द्रव्यश्रुतवर्णेन सम्बन्ध मा कुरु नो विधेहि। किन्तु अक्षरेण ब्रह्मरूपेणात्मना सम्बन्धं कुरु। 'अक्षरं न द्वयो र्मोक्षे ब्रह्मणि व्योमवर्णयोः' इति विश्वलोचनः। अमा साकं सम्बन्धं कुरु । रेण तीक्ष्णेन दवेन वनाग्निना तप्ता कुः पृथिवी क्षरेण मेघेन जलेन वा विना न कलयतु प्राप्नोतु शान्तिमिति योज्यम्। ' रस्तु कामानले वह्नौ तीक्ष्णे' इति ‘क्षरो मेघे क्षरं नीरे' इति विश्वलोचनः । 'वने च वनवह्नौ च दवो दाव इहेष्यते' इत्यमरः । नवपूर्वाधिकैकादशाङ्गद्रव्यश्रुतपाठी न तरति संसारसागरादिति भावश्रुतेन सम्बन्धं विधेहीति भावः ।।६७।।
अर्थ- हे आत्मन्! पौद्ग लिक अक्षररूप द्रव्यश्रुत से सम्बन्ध मत करो, किन्तु अक्षर-ब्रह्मरूप आत्मा से सम्बन्ध करो अर्थात् भावश्रुत से सम्बन्ध जोड़ो;क्योंकि तीक्ष्ण दावानल से संतप्तभूमि जल अथवा मेघ के बिना शान्ति को प्राप्त नहीं हो सकती।
भावार्थ- जिस प्रकार संतप्त पृथिवी को शान्त करने के लिए जल की आवश्यकता है। उसी प्रकार विषयानलसंतप्त आत्मा को शान्त करने के लिए भावश्रुत की आवश्यकता है ||६७।।
[६८] असावभावो भावः पर्यायस्य न भावस्य च भावः । त्रैकालिकस्तु भावः परमेष्ठिमतस्येति भावः ।।।