________________
[२२] स्पृशति ते वदनं च मनोहरं, तव समं मम भाति मनो हर!
समुपयोग पयो ह्यपयोग तन्ननु भवेन्न पयोऽपि पयोगतम् ।। हे अपयोगासमुपयोगीहर! ते मनोहरं वदनं च मम मनः (यदा) स्पृशति (तदा) तव समम् हि भाति। तत् पयोगतम् पयः अपिः पयः ननु न भवेत् (भवेदित्यर्थः)।
स्पृशतीति - हे अपयोग! अपगतो योगो मनोवाक्कायप्रवृत्तिर्यस्य तत्सम्बुद्धौ। हे समुपयोग! समीचीनौ उपयोगी ज्ञानदर्शनरूपौ यस्य तत्सम्बुद्धौ। हे हर! जिनेन्द्र! मम स्तोतुः मनः चित्तं यदा ते तव मनोहरं चेतोहरं रमणीयमिति यावत्। वदनं मुखं स्पृशति स्पष्टं करोति ध्यायतीत्यर्थः तदा तव मम सदृशं मया लक्ष्म्या सहितं वा हि निश्चयेन भाति शोभते। तदेवार्थान्तरेण निर्दिशति-तत् प्रसिद्धं पयोऽपि जलमपि पयोगतं दुग्धप्राप्तं सत् ननु निश्चयेन तत् दुग्धं दुग्धवद् वा न भवेत् अपि तु भवेदेव । 'दुग्धे नीरे वटादीनां क्षीरेऽपि क्षीरवत्पयः' इति विश्वलोचनः ।।२२।।
___ अर्थ - हे अपयोग! मन, वचन और काय की प्रवृत्ति से रहित! हे समुपयोग! ज्ञानदर्शन रूप समीचीन उपयोगों से सहित, हे हर! हे जिनेन्द्र! जब मेरा मन आपके मनोहर वदन-मुख का स्पर्श करता है- आपके वैराग्यपूर्ण मुखमुद्रा का ध्यान करता है तब वह आपके समान वैराग्यपूर्ण हो जाता है। ठीक ही है क्योंकि दूध में मिला हुआ पानी क्या दूध या दूध के समान नहीं हो जाता? अवश्य हो जाता है ।।२२।।
__ [२३] असि शशी सितशीतसुधाकरैः, स्वगतशुद्धगुणैश्च सदा करैः।
यदि न दृक्सलिलं समभावि भो! मम मनोमणितो न झरे विभो! ।। भो! विभो! (त्वम्) सितशीतसुधाकरैः स्वगतशुद्धगुणैः करैः च सदा शशी असि ! यदि न (असि तर्हि) मम मनोमणितः समभावि दृक्सलिलं न झरेत्।
असीति-भो! विभो! हे स्वामिन्! त्वं सितशीतसुधाकरैः सिता समुज्ज्वला शीता शान्तिदायिनी च या सुधा पीयूषं तस्या आकरैः खनिभिः, स्वगतशुद्धगुणैः स्वगता आत्मस्थिता ये शुद्धगुणा निर्दोषगुणास्तैः ।च समुच्चयार्थः। एतद्रूपैः करैः किरणैः सदा शशी चन्द्रोऽसि यदि न यद्येवं न, तर्हि मम स्तोतुः मनोमणितः मन एव मणिश्चंद्रकांतस्तस्मात् समभावि सद्यः समुत्पद्यमानं दृक्सलिलं दृगेव सलिलमिति दृक्सलिलंसम्यग्दर्शननीरं हर्षाश्रु वा न झरेत् न निःश्च्योतेत् । यथा चंद्ररश्मिभिश्चंद्रकांतमणितो जलं निःश्च्योतति तथा तव दर्शनान्मम मनोमणितः सम्यग्दर्शनसलिलं प्रकटीभवति,त्वां दृष्ट्वा मम हर्षाश्रूणि पतन्तीति वा।।२३।।
(८३)