________________
[५६ ] ननु दृगादिभिरात्मबलैः सुखं, करण ह्यपि तत्समलैः सुखम् ।
जगति तन्तुभिरेव सुनिर्मितम्, पटमितीह जगाद मुनिर्मितम् ।। हे लोकेश! आत्मबलैः दृगादिभिः ननु सुखं समलैः (दृगादिभिः) तत् करणजं सुखं अपि (भवतु) इह जगति तन्तुभिः एव पदम् सुनिर्मितम् इति मितम् मुनिः जगाद।
नन्विति-हे लोकेश! ननु निश्चयतो यत् सुखं आत्मोत्थं तत् दृगादिभिः सम्यग्दर्शनादिभिः आत्मबलैरात्मशक्तिभिः प्राप्यते । यच्च करणजं इन्द्रियभवं सुखं तदपि इह जगति समलैः सातिचारैर्दुगादिभिरेव प्राप्यते । तदेवोदाहरति-यत् पटं वस्त्रं तत् तन्तुभिरेव सुनिर्मितं रचितं । इति मुनिर्भवान् मितं यथास्यात् जगाद । यथा सर्वविधं वस्त्रं तन्तुभिरेव निर्मीयते तथा स्वर्गादिजं मुक्तिजं वा सुखं सम्यग्दर्शनादिभिरेव संपद्यत इति भावः ।।५६ ।। ___अर्थ-हे लोकेश! निश्चय से जो आत्मोत्थ सुख है वह सम्यग्दर्शनादि आत्मशक्तियों से प्राप्त होता है । और जो इन्द्रियजन्यसुख है वह भी समल-सातिचार-अपूर्ण सम्यग्दर्शनादि आत्मशक्तियों से प्राप्त होता है। उचित ही है, इस जगत् में जो वस्त्र है वह तंतुओं से ही निर्मित होता है, ऐसा संक्षेप में आप मुनि ने कहा था ।।५६।।
[५७] नयति विस्मरणं सुखयाचना-मजनुतौ विरतो दयया च ना।
मणिमयं जलधाववगाहितः, किमिह याचत ए खनगाहित! ।। ए खनगाहित! अजनुतौदय या च विरतः ना सुखयाचनां विस्मरणं नयति। (उचितमेव) इह जेलधौ अवगाहितः अयं (जनः) किं मणिम् याचते? (कदापि नेत्यर्थः)।
- नयतीति-ए खनगाहित! खेषु हृषीकेषु न गाहितः खनगाहितस्तत्सम्बुद्धौ हे इन्द्रियजसुखपराङ्मुख ! अजनुतौ भगवत्स्तवने दययाऽनुकम्पया च विरतः पराङ्मुखो ना पुमान् सुखयाचनां सुखार्थितां विस्मरणं विस्मृतिं नयति प्रापयति । अजनुतौ दयायां च प्रवृत्त एव नरो सुखं प्राप्नोति यश्च ततो विरतः स सुखयाचनां विस्मरतीति भावः । तदेवोदाहरति-जलधौ सागरे अनवगाहितोऽकृतप्रवेशः । अयं जनः किमिह लोके मणिं याचते? नैव याचते । जलधौ कृतावगाहो जन एव मणिं प्राप्तुं शक्नोति यथा, तथाजनुतौ दयायां च प्रवृत्त एव जनः सुखं लभेतेति तात्पर्यम् ।।५७।। ____ अर्थ-हे इन्द्रियसुख से विमुख! भगवन्! भगवत्स्तुति और दया से विमुख रहने वाला मनुष्य सुखयाचना को भूल जाता है। ठीक ही है- समुद्र में गोता न लगाने वाला यह मनुष्य संसार में क्या मणि की याचना करता है? अर्थात् नहीं करता ||५७||
(१०२)