________________
[७१] यदुदितं वचनं शुचि साधुना,वदति तत् न कुधीरिति साधु ना।
ज्वरमितः सुपयः किमु ना सितां,ह्यनुभवद् भुवि रोगविनाशिताम्।। हे साधो! (त्वया) साधुना यत् शुचि वचनम् उदितम् तत् साधु न इतिकुधीः ना वदति। (उचितमेव) भुविरोगविनाशितां सितां अनुभवत् सुपयः ज्वरमितः (ज्वरं गतः) ना किमु (तथा न वदति)!
यदुदितमिति-हे साधो! साधुना त्वया यत् शुचि पवित्रं निरवद्यमिति यावत् । वचनं वच उदितं कथितं 'वाग्वचोवचनं वाणी भारती गीः सरस्वती' इति धनञ्जयः।तत् साधु प्रशस्तं न , इति कुधीर्दुर्बुद्धिः ना पुमान् वदति कथयति । युक्तमेवैतत् यतो भुवि पृथिव्यां रोगविनाशितां विनाशितो रोगो यया तां 'बाहिताग्न्यादिषु' इति निष्ठान्तस्य परप्रयोगः । सितां शर्करोपलम् अनुभवत् सुपयः सुदुग्धं ज्वरमितः ज्वरयुक्तो ना किमु तथा न वदति ? अपि तु वदत्येव यथा ज्वराक्रान्तो मनुष्यः सिता मिश्रं दुग्धं मधुरं न वदति तथा मिथ्यात्वाक्रान्तो जनो वीतरागसर्वज्ञवचनं साधु न वदतीति भावः ।।७१।।
___ अर्थ-हे साधो! आप साधु के द्वारा जो निर्दोष वचन कहा गया है, वह ठीक नहीं है, ऐसा अज्ञानी पुरुष कहता है | उचित ही है क्योंकि पृथिवी पर रोग को नष्ट करने वाली मिश्री से युक्त उत्तम दूध को ज्वरसहित मनुष्य वैसा नहीं है, मीठा नहीं है, ऐसा क्या नहीं कहता?||७१।।
[७२] सुकवितां विरचय्य च केवलं,भवतु कोऽपि कविर्गत! केवलम्।
स्वकवितां तु ततोऽहमशेषतामनुभवामि ममास्तु विशेषता।। हे केवलं गत! (तव) केवलम् सुकवितां विरचय्य कः अपि कविः भवतु। अहंतु ततः अशेषताम् स्वकवितां अनुभवामि (अतः) मम विशेषता (अस्तु)।
सुकवितामिति-हे केवलंगत! हे प्रकटितकेवलज्ञान! तव केवलं मात्रं सुकवितां सुन्दरकवितां स्तुतिरूपामिति यावत् विरचय्य रचयित्वा कोऽपि जनः कविः काव्यकर्ता भवतु । अहं तु ततः अशेषतां समग्रां स्वकवितामनुभवामि अतो मम विशेषतास्तु। न केवलं कवितानिर्माणेन कोऽपि कविर्भवति किन्तु तन्माध्यमेन स्वस्यानुभवितैव कविताकारको भवतीति भावः ।।७२।।।
___ अर्थ-हे केवलज्ञान से युक्त जिनेन्द्र! मात्र आपकी कविता रचकर कोई भी कवि हो सकता है | परन्तु मैं संपूर्ण रूप से स्वकविता का अनुभव करता हूं अतः यह मेरी विशेषता है।
(११०)