________________
अर्थ-ई अज! हे जन्मातीत! यदि अनियम-स्वैराचार छूट गया है तो संयम से क्या? यदि शरीर से मोह छूट गया है तो अन्न से क्या? यदि कामेन्द्रिय को जीत लिया है तो वस्त्र से क्या? यदि संसाररूपी रोग से विरत हो गये हैं तो श्रेष्ठ जिनेन्द्र अथवा अन्य पूज्य से क्या? अर्थात् सब अनावश्यक हैं ।।८१ ।।
[८२] खविषयं विरसं नहि मे मनो, विचरदिच्छति शैवगमे मनो !!
परिविहाय घृतं स सुधीः कदा, जगति तक्रमिदं समधीः कदा:! ।। हे कदाः! मनो शैवगमे विचरत् मे मनः विरसम् खविषयम् नहि इच्छति । जगति स सुधीः समधीः कदा घृतम् परिविहाय इदम् तक्रम् (इच्छति) ।
_खविषयमिति- हे कदाः! कं सुखं ददातीति कदास्तत्सम्बुद्धौ क्विबन्तः प्रयोगः। हे मनो! हे भगवन् ! शैवगमे शिवस्यायं शैवः स चासौ गमश्चेति शैवगमस्तस्मिन् मोक्षमार्गे विचरद् विचरणं कुर्वत् मे मम स्तोतुः मनश्चित्तं विरसं नीरसं खविषयं हृषीकविषयं नहीच्छति नो काङ्क्षति। उचितमेवैतत्- जगति भुवने स प्रसिद्धः समधीः समा धीर्यस्य सः। सुधी र्बुधः 'विद्वान् विपश्चिद्दोषज्ञः सन्सुधीः कोविदो बुधः' इत्यमरः। घृतमाज्यं परिहाय त्यक्त्वा। इदं तक्रं मथितं 'उदश्विन्मथितं तकं कालशेयं पिबेद्गुरुः" इति धनञ्जयः। कदा कस्मिन् काले इच्छति? न कदापीत्यर्थः ।। ८२।।
अर्थ- हे सुखदायक स्वामी! मोक्षमार्ग में विचरण करने वाला मेरा मन नीरस इन्द्रिय विषय की इच्छा नहीं करता। उचित ही है कि जगत् में वह कौन समबुद्धि विद्वान् है जो घृत के छोड़कर छांछ की इच्छा करता है ? ||८२।।
[८३] मम मतिः क्षणिका ह्यपि चिन्मयी, तदुदिता न चितो यदतन्मयी।
ननु न वीचिन्ततिः सरसा विना, भवतु वा न सरश्च तया विनाः ! ।। हे विनाः! मम क्षणिका अपि चिन्मयी मतिः (अस्तु) तदुदिता (अतः) न चितः यत् (यस्मात्) अतन्मयी (अस्तु) ननु वीचिततिः सरसा विना न भवतु (किन्तु) सर: तया विना भवतु न वा।।
___ ममेति- हे विना विशिष्टो ना विनास्तत्सम्बुद्धौ, हे विशिष्टनेतः। 'नास्तु नेतरि नावि स्त्री' इति विश्वलोचनः। मम स्तोतुः क्षणिका अपि क्षायोपशमिकत्वेनास्थिरापि मतिर्बुद्धिः हि निश्चयेन चिन्मयी चैतन्यमयी अस्ति। यतश्च सामतिः तदुदिता तस्मात् चितश्चैतन्यात् उदिता समुत्पन्ना। चितश्चैतन्यात् नोदिता चेन्नोत्पन्ना यदि, तर्हि अतन्मयी अचैतन्यरूपा भवतु। तदेवोदाहरति-ननु निश्चयेन वीचितति स्तरङ्गसन्ततिः
(११६)