________________
[९९]
गुणवतामिति चासि मतोऽक्षर, किल तथापि न चित्तवतोऽक्षरः । नहि जिनाप्यसि तेन विना सितः, स्तुतिरियं च कृतात्र विनाशितः । ।
हे जिन (त्वं ) अक्षरः असि इति गुणवताम् मतः किल तथापि चित्तवतः अक्षरः (शब्दमयः) न (असि) । (किन्तु ) तेन विना (शब्देन विना ) ( मया) सितः (ज्ञातः) अपि न (असि)। अतः अत्र विनाशितः (शब्दैः) इयम् च (ते) स्तुति: (मया) कृता ।
गुणवतामिति - हे जिन ! त्वम् अक्षरोऽविनाशी असि । इतीत्थं गुणवतां गुणधारिणां मतः किल तथापि चित्तवतो विचारशीलस्य अक्षरः शब्दमयो नासि । अक्षरस्य पौलिकत्वा दात्मरूपत्वं नास्तीति भावः । तेनाक्षरेण विना शब्देन विना त्वं सितो ज्ञातोऽपि नासि ‘सितं श्वेतसमाप्तयोः । त्रिषु ज्ञातेऽपि बद्धेऽपि' इति विश्वलोचनः । अतोऽत्र लोके विनाशितः शब्दैर्विना नाशं प्राप्तः । इयमेषा च ते स्तुतिः कृता मयेति शेषः ।। ९९।।
अर्थ - हे जिन ! यद्यपि आप अक्षर - अविनाशी हो ऐसा गुणवानों का मत है तथापि चित्तवान्-आत्मा के अक्षररूपता कैसे हो सकती है ? क्योंकि आप सचेतन हैं और अक्षर पौद्गलिक होने से जड़ रूप हैं। आप अक्षररूप नहीं हैं यह ठीक है फिर भी अक्षर के विना आप ज्ञात नहीं हैं । अर्थात् अक्षरों से ही आपका ज्ञान होता है। अतः इस जगत् में आपकी यह स्तुति मैंने शब्दों से की है || ९९||
[१०० ]
वै विषमयीमविद्यां विहाय ज्ञानसागरजां विद्याम् । सुधामेम्यात्मविद्यां नेच्छामि सृकृतजां भुवि द्याम् ।।
अत्र भुवि अहम् आत्मवित् सुकृतजां याम् द्याम् न इच्छामि वै विषमयीम् अविद्याम् विहाय "ज्ञानसागरजाम्” सुधाम् विद्याम् एमि ।
इति - भुवि अस्यां पृथिव्यामहं वै निश्चयेन सुकृतजां पुण्योद्भूतां द्यां स्वर्गं नेच्छामि नाभिलषामि किन्तु विषमयीं गरलरूपाम् अविद्यामज्ञानपरिणतिं विहाय त्यक्त्वा ज्ञानसागरजां ज्ञानमेव सागरः समुद्रस्तस्माज्जातां ज्ञानसागर एतन्नामा गुरुस्तस्माज्जातां समुदितां वा आत्मविद्याम् आत्मज्ञानपरिणतिरूपां सुधां पीयूषं एमि प्राप्नोमि
।। १०० ।।
अर्थ- हे भगवन्! इस पृथिवी पर मैं निश्चय से पुण्योदय से प्राप्त होने वाले स्वर्ग हीं चाहता हूँ किन्तु विषरूप अविद्या को छोड़कर ज्ञानरूप सागर (पक्ष में ज्ञानसार गुरु) में उत्पन्न आत्मविद्यारूपी सुधा को प्राप्त होता हूँ ।
(१२५)