________________
[९५] किल विदा कमयंति विरागिणस्तदितरद् कुविदा भुवि रागिणः ।
शुचिमिते जिन ते भव सन्मते !, समुदितं विशदं त्विति सन्मते ।। हे सन्मते ! भव जिन! भुवि विरागिणः किल विदा कम् अयंति। रागिणः कुविदा तदितरत्/दुःखम्) (अयन्ति) इति ते सन्मते शुचिम् इते (शुचिमते) विशदम् समुदितम्।
किलेति- हे सन्मते! सती मतिर्यस्य स सन्मतिस्तत्सम्बुद्धौ हे सद्बुविशोभित! हे महावीर! वा । हे भव जिन! श्रेयोरूप जिन! भुवि वसुधायां किलेति वाक्यालंकारे विरागिणो रागरहिता जना विदा सम्यग्ज्ञानेन कं सुखम् अयन्ति प्राप्नुवन्ति । रागिणस्तु रागयुक्ता जनास्तुकुविदा मिथ्याज्ञानेन तदितरं तस्मात्सुखादितरद् दुःखमयन्ति । इतीत्थं शुचिं नैर्मल्यमिते प्राप्ते ते तव सन्मतें समीचीनमते विशदं स्पष्टं यथा स्यात्तथा समुदितं कथितं त्वयेति शेषः ।।९५।।
__ अर्थ- हे सद्बुद्धि से विशोभित! हे प्रशस्तजिन! पृथिवी पर विरागी मनुष्य सम्यग्ज्ञान से सुख को प्राप्त होते हैं और रागी मनुष्य कुज्ञान से दुःख को प्राप्त होते हैं। इस तरह शुचिता को प्राप्त आपके समीचीन मत में स्पष्ट रूप से कहा गया है।
भावार्थ- रागपरिणति दुःख का कारण है और विरागपरिणति सुख का कारण है। जिनधर्म में स्पष्ट कहा गया है कि रागी जीव कर्मबन्ध करता है और विरागी जीव कर्मबन्ध से छूटता है ||९५।।
[९६] मम सुवित् तनुरद्य मितांजसा, तव नुतेर्लघुना ह्यमिताज सा। इति समुद्गम एव भृशं गमे, सरिदिवान सरित्पतिसंगमे।। . हे अज! अत्र समुद्गमे गमे एव सरित् (तनुः) (किन्तु) सरित्पतिसंगमे इव मम सुवित् अद्य (एन) मिता तनुः (अस्ति किन्तुोतव नुतेः लघुना अंजसा सा हि अमिता (स्यात्।।
ममेति- हे अज! हे जन्मातीत! यद्यपि मम स्तोतुः सुवित् सम्यग्ज्ञानं अद्य साम्प्रतम् अज्जसा याथार्थेन तनु: अल्पा मिता सीमिता चास्ति तथापि तव नुतेः स्तुतेः सा सुवित् लघुना शीघ्रं लघुना कालेनेति यावत्। हि निश्चयतः अमिता सीमातीता स्यादिति शेषः। 'जिनस्तुतिप्रभावादल्पमपि सम्यग्ज्ञानं केवलज्ञानेन परिणमतीत्यर्थः। तदेवोदाहरति- अत्र जगति सरित् इव नदी यथा इति समुद्गमे एव अयनमितिर्गतिरित्यर्थः तस्याः समुद्गमे प्रारम्भ एव तनुः कृशा भवति, गमे मार्गे ‘गमो द्यूतान्तरे मार्गे' इति विश्वलोचनः। सरित्पतिसंगमे च सागरसमागमे च भृशमत्यन्तम् अमिता सुविस्तृता भवति ।।९६।।
(१२३)