________________
अर्थ - हे अज ! यद्यपि आज मेरा सम्यग्ज्ञान वास्तव में अल्प और सीमित है तथापि आपके स्तवन से वह शीघ्र ही निश्चयतः अपरिमित हो सकता है । जैसे कि नदी उद्गम स्थान में ही पतली होती है । परन्तु मार्ग में और समुद्र का समागम होने के समय अत्यन्त अपरिमित-सुविस्तृत हो जाती है ||९६ ||
[ ९७]
विरत ईश ! भवामि न हंसतः, पदयुगादिह तावदहं सतः । विदमला मम नृत्यति सम्मुखं, सदय! यावदिता विहसन्मुखम् ।।
हे सदय ! ईश ! हंसतः सतः पदयुगात् अहम् तावत् विरतः न भवामि यावत् ममसम्मुखं विहसन्मुखं इता विदमला नृत्यति ।
विरत इति - हे सदय ! हे सकृप ! ईश ! स्वामिन्! इह जगति । अहं स्तोता हंसतो विवेकरूपात् आत्मरूपाद्वा सतः साधोस्तव पदयुगात् चरणयुगलाद् तावत् विरतो विरक्तो न भवामि यावत् मम सम्मुखं पुरस्तात् । विहसन्मुखं प्रसन्नवदनम् इता प्राप्ता अमलाविद् निर्मलाज्ञाप्तिश्चेतनेति यावत् नृत्यति नृत्यं करोति । यावन्मम हृदये निर्मलविचारसन्ततिर्विद्यते तावत्त्वच्चरणारविन्दयुगलभक्तितो विरतो न भविष्यामीति मे संकल्पः ।। ९७ ।।
अर्थ - हे सदय ! ईश ! हे दयालो भगवन् ! इस जगत् में मैं आपके विवेकरूप श्रेष्ठ चरण युगल से तब तक विरत - पराङ्मुख नहीं होता हूँ जब तक मेरे सन्मुख प्रसन्नवदना निर्मलचेतना नृत्य करती है ||१७||
[९८]
स्तवनतो रसना च शिरो नतेः, पथि पदौ गमनाच्च शेन ! ते । इति समीक्षणतो नयने न ! मे, ह्यवयवा विमलाः सुमुने नमे ! ।।
हे सुमुने! न न ! नमे ! ते स्तवनतः मे रसना (ते) पथि गमनात् पदौ (ते) नतेः शिरः (ते) समीक्षणतः (c) नयने इति (सर्वे ) हि अवयवाः विमलाः (भूताः) ।
स्तवनत इति- हे सुमुने! हे शोभनयते! हे न न ! हे पूज्यजिनेन्द्र ! हे न गुरो ! पूज्यगुरो ! हे नमे ! नमितीर्थकर ! ते तव स्तवनतः स्तुतेः रसना जिह्वा, नतेर्नमस्कारात् शिरो मूर्धा, पथि मार्गे गमनात् पदौ चरणौ, समीक्षणतः समवलोकनात् नयने लोचने च । इत्थं मे मम अवयवा अङ्गानि हि निश्चयेन विमला निर्मला जाता इति शेषः । । ९८ । । अर्थ - हे सुमुने! हे पूज्य जिनराज ! हे पूज्य गुरुदेव ! हे नमिनाथ भगवन्! आपके स्तवन से जिह्वा, नमस्कार से मस्तक, मार्ग में गमन करने से पैर और दर्शन से दोनों नेत्र, इसप्रकार मेरे सभी अङ्ग निश्चय से निर्मल हो गये ||१८||
( १२४ )