________________
भगवता अमला, अचला, समा , हिता, च दृक् हि समाहिता ।
सकलेति-हे जिन! तव सकलवस्तुगमा निखिलवस्तुज्ञानवती, परममानमयी दीर्घप्रमाणोपेता, भ्रमनाशिका सन्देहविध्वंसिनी नासिका घ्राणमस्तीति शेषः। तत एव तस्मादेव कारणात भगवता त्वया स्वामिना अत्र नासिकायां अमला विमला, अचला स्थिरा, समा माध्यस्थ्योपेता, हिता च श्रेयस्करी च दृग् दृष्टिः हि निश्चेयन समाहिता संस्थापिता। नासादृष्टिर्भवानिति भावः ।।८५।।
अर्थ- हे भगवन् ! यतश्च आपकी नासा समस्त पदार्थों को जानने वाली, अधिक परिमाण वाली और भ्रम का नाश करने वाली है। इसीलिये आपने निर्मल, निश्चल, माध्यस्थ्यभाव से सहित तथा हित रूप अपनी दृष्टि इस नासा पर लगा रक्खी है।।८५।।
[८६] असि गुरु:प्रगुणैश्च समानतः, परमराम इहारममाणतः ।
अतिसुखी निजबोधपरागतः, सुपुरुषः प्रकृतावपरागतः ।। हे देव! प्रगुणैः समानतः गुरुः (असि) इह (निजात्मनि) आसमंतात् रममाणतः आरममाणतः परमरामः (असि) । निजबेधपरागतः अतिसुखी (असि) । प्रकृतौ अपरागतः सुपुरुषः (असि)।
असीति- हे देव! त्वं प्रगुणैः प्रकृष्टाश्च ते गुणाश्चेति प्रगुणास्तैः श्रेष्ठगुणैः। अथवा प्रकृष्टा गुणा येषां तैः प्रकृष्टगुणवद्भिः समानतः सहितः संनतो वा। अतः गुरू श्रेष्ठोऽसि 'गुरुस्तु गीष्पतौ श्रेष्ठे गुरौ पितरि दुभरे' इति विश्वः। इह शुद्धात्मस्वरूपे रममाणतः रमत इति रममाणस्ततः परमरामोऽसि परमश्चासौ रामश्चेति परमरामः श्रेष्ठरामोऽसि। निजबोधपरागतो निजस्यात्मनो बोधो ज्ञानं तदेव परागः. पुष्परजस्तस्मात् सुखी अतिशयसुखसहितोऽसि। प्रकृतौ स्वभावे अपरागतः सांमुख्यात् सुपुरुषः श्रेष्ठपुरुषोऽसि। अथवा प्रकृतिः सांख्यदर्शनाभ्युपगमस्तत्त्वविशेषस्तस्मिन् अपरागतः प्रीत्यभावात् सुपुरुषः शुद्धपुरुषोऽसि ।।८६।।
___ अर्थ- हे देव! आप श्रेष्ठ गुणों अथवा श्रेष्ठ गुणवानों से अच्छी तरह नमस्कृत हैं अतः गुरु हैं। इस आत्मस्वभाव में सब ओर से रमण करते हैं अतः राम हैं। आत्मज्ञानरूपी पराग से अत्यन्त सुखी हैं और प्रकृति में राग रहित होने से उत्तम पुरुष हैं ।।८६।।
[८७] परमवीरक आत्मजयीह त, इति शिवो हृदि लोकजयी हतः। अणुरसीति ममोरसि तानितः, समयकान् स्वविदा भवतानितः ।।