________________
हे वीर! इह आत्मजयी (अतः) परमवीरकः असि ते हृदि लोकजयी ( कामः). हतः इति शिव: (असि) मम उरसि असि इति अणुः असि । तान् (सकलान्) समयकान् स्वावेदा इतः (इति) भवतानितः (विश्वव्यापी) असि ।
परमवीरक इति- हे वीर ! इह जगति त्वम् आत्मजयी आत्मानं जेतुं शीलः । अथवात्मनो जयो विद्यते यस्य तथाभूतः । अतः परमवीरकः परमवीर क आत्मा यस्य तथाभूतोऽसि । ते तव हृदि हृदये लोकजयी कामो हतो नष्ट इति शिवः शंकर कल्याणरूपो वासि। मम स्तोतुः उरसि मनसि असीति हेतोः अणुः अणुरूपोऽसि। मनसोऽणुत्वादिति भावः । तान् सकलान् समयकान् समयन्ते इति समयाः, समया एव समयकास्तान् सकलपदार्थान्। इतः प्राप्तः । इति हेतोः भवतानितः भवे तानितो विस्तृतो भवतानितो विश्वव्यापी असि ।
अर्थ - हे वीर ! आप आत्मजयी हैं अतः परमवीर हैं। आपके हृदय में लोकविजयी - काम नष्ट हुआ है अतः आप शिव-शंकर अथवा कल्याणरूप हैं। आप मेरे हृदय में आसीन हैं अतः अणुरूप हैं और अपने ज्ञान से समस्त पदार्थों को प्राप्त हैं अतः विश्वव्यापी हैं ||८७ ||
[८८]
नहि सुखे किल दुःखसमागमे, त्वयि मनो रमते मतमागमे । निशि वरं शशिनो मुखवृत्तकं, भुवि चकोरवयेऽस्त्वित वृत्तकम् ।।
वृत्तकम् इत! ईश ! सुखे नहि दुःखसमागमे त्वयि मनो रमते (इति) आगमे मतम् ( कथितम् ) भुवि . चकोरवयेशशिनः मुखवृत्तकम् निशि (एव) वरम् (न दिवसे) अस्तु ।
नहीति – हे वृत्तकं चारित्रं इत प्राप्त ! 'त्रिषु वृत्तं तु चरिते' इति विश्वलोचनः । वृत्तमेव वृत्तकं स्वार्थे कप्रत्ययः । सुखे सुखावसरे नहि तु दुःखसमागमे दुःखस्य समागमस्तस्मिन् सति त्वयि मनश्चित्तं रमते । इति आगमे मतं कथितम् । तदेवोदाहरति भुवि चकोरवये चकोरश्चासौ विश्चेति चकोरविस्तस्मै जीवंजीवपक्षिणे ‘जीवंजीवश्चकोरकः’ इत्यमरः । शशिनश्चन्द्रस्य मुखवृत्तकं मुखमण्डलं निशि नक्तमेव वरं श्रेष्ठम् अस्तु, दिवसे नेति यावत् । ' दुःखावसरे त्वां स्मरति लोको न सुखावसरे' इति लोकोक्तं चकोरपक्षिदृष्टान्तेन स्फुटीकृतम् ।। ८८ ।।
अर्थ- हे वृत्तकमित! हे चारित्र को प्राप्त भगवन् ! सुख के समय नहीं किन्तु दुःख का समागम होने पर आप में मेरा मन रमता है, ऐसा शास्त्र में माना गया है। यह उचित ही है क्योंकि चकोर पक्षी के लिये चन्द्रमा का मण्डल रात में ही अच्छा लगता है रुचता है, दिन में नहीं ||८८ ||
( ११६ )