________________
अर्थ- हे अजित! कर्मरूपी रज को अच्छी तरह उड़ाकर निश्चय से नित्य, श्रेष्ठ और शरणदायक इस आर्हन्त्यपद को स्वकीय पुरुषार्थ से शीघ्र प्राप्त करने वाले आपको छोड़कर, नाव को छोड़ पक्षी के समान मैं अन्य किसी को नहीं प्राप्त होता हूं। 'मुक्त्वा भवन्तमिह कं शरणं व्रजानि' ।।७४।।
[७५] तव नुतेः सुखदश्च भृशं कर,उरसि मे विशतीह नु शंकर!।।
दिनकरस्य शिवास्य विभावतः सदनरंध्र इवाज ! हि भावतः।। हे अज! शंकर! शिव! तव नुतेः सुखदः करः च भृशम् मे इह उरसि अस्य विभावतः दिनकरस्य सदनरन्ध्रे (करः) इव हि भावतः विशति।
तवेति-हे अज! हे जन्मातीत! हे शंकर! हे शान्तिविधायक! हे शिव ! सुखस्वरूप! 'शिवं मोक्षे सुखे जलम्' इति विश्वलोचनः । तवाहतो नुतेः स्तुतेर्हेतोः सुखद सुखप्रद करः प्रत्ययो विश्वासः श्रद्धानमिति यावत् .. 'करस्तु पाणिप्रत्यायशुण्डारश्मिघनोपले' इति विश्वलोचनः । अथवा स्तुतेः स्तवनस्य करो रश्मिः मम स्तोतुः इहास्मिन् उरसि हृदये भृशमत्यर्थं विभावतः प्रभायुक्तस्य दिनकरस्य कर इवांशुरिव 'वलिहस्तांशवः कराः' इत्यमरः सदनरन्ध्रे गृहच्छिद्र इव हि भावतः परमार्थतो विशति प्रविष्टो भवति। यथा सच्छिद्रगृह पटले सूर्यांशुर्बलात्प्रविशति तथा स्तुतिप्रभावात्तव प्रत्ययो मम हृदये भृशं प्रविशतीति भावः ।।७५।।
___ अर्थ-हे अज ! हे शांतिविधायक! हे सुखस्वरूप! आपकी स्तुति से आपका सुखप्रद श्रद्धान अथवा आपकी स्तुति की किरणावली मेरे इस हृदय में परमार्थ से उस तरह अत्यधिक प्रवेश कर रही है जिस तरह कि प्रभापुंज सूर्य की किरण सच्छिद्र घर में प्रवेश करती है ।।७५।।
[७६ ] सति शिवे हि मनोऽपि नियोजयेत् मनसिजं सहजं समयो जयेत्।
जगति कारण एव लयं गत,इह नु कार्यमिदं ह्यभयंगत! ।। हे अभयंगत! सति शिवे (त्वयि) हि मनः नियोजयेत् समयः मनसिजम् सहजम् अपि जयेत्। इह जगति कारणे लयं गते एव इदम् कार्य म् नु (अस्तु) (न कदापि)।
सतीति-हे अभयंगत! हे प्राप्ताभय! यो जनः सति साधौ शिवे शिवस्वरूपे आत्मानन्दमये त्वयीति शेषः । मनश्चित्तं हि नियोजयेत् संलग्नं कुर्यात् स समयः शुद्धात्मस्वरूपः इह जगति भुवनेऽस्मिन् सहजं सहोत्पन्नमपि मनसिजं कामं जयेत्।
(११२)