________________
हे जिन ! तव सहजां सुखदां विदं इते अमिते सति मते च अशने लवणवत् (हि) सदा ते विफलाः मताः लयं अयंति हटात् विमलाः मताः (पूज्याः भवति) |
तवेति है जिन! तव भवतः सहजां स्वाभाविकीं सुखदां सुखदायिनीं विदं ज्ञानं, इते प्राप्ते अमिते अपरिमिते सुविस्तृत इत्यर्थः सति प्रशस्ते मते च धर्मे च सदा शश्वद् विफला एकान्तवादत्वेन निरर्थका अकार्यकरा मता धर्मा यदि लयं लीनताम् अयन्ति प्राप्नुवन्ति तर्हि ते अमिते विपुले अशने भोजने लवणवत् क्षारमिव हठात् प्रसह्य विमला विगतं मलं येषां ते तथाभूता निर्दोषा मताः स्वीकृताः । अत्र भुवने ये ह्येकान्तवादाः सन्ति ते यदि जैनेन्द्रे स्याद्वादे लीना भवन्ति तर्हि तेऽपि निरवद्या भवेयुरिति भावः । । ६९ । ।
अर्थ- हे जिन! आपके सहज सुखदायक ज्ञान को प्राप्त अपरिमित प्रशस्त मत में यदि एकान्तवाद के कारण अकार्यकारी अन्य मत-धर्म लीनता को प्राप्त हो जावें तो विशाल भोजन में नमक की तरह वे भी हठात् निर्मल- निर्दोष होकर पूज्य हो जावें ||६९ ||
[ ७०
• ]
स्तुतिबलं ह्यवलम्ब्य मनोर्भवे, ह्यनुचरामि निजात्मनि नो भवे। कदपथेऽत्र वयोऽपि सपक्षका इति चरन्ति वदन्ति विपक्षकाः । । हे जगद्वंद्य ! मनोः स्तुतिबलं अवलम्ब्य भवे निजात्मनि अनुचरामि, नो भवे ( अनुचरामि ) अत्र कदपथे सपक्षकाः वयः एव अपि चरंति इति विपक्षकाः वदन्ति !
स्तुतिबलमिती - हे जगद्वन्द्य ! मनोर्भगवतस्तव स्तुतिबलं हि निश्चयेन अवलम्ब्य समाश्रित्य भवे श्रेयसि कल्याणकर इति यावत् 'भवः श्रीकण्ठसंसार श्रेयः सत्ताप्तिजन्मसु ' इति विश्वलोचनः । निजात्मनि स्वस्वरूपे हि परमार्थतः । अनुचरामि विहरामि शुद्धात्मस्वरूपं चिंतयामीति भावः । भवे संसारे नो अनुचरामि । अत्र जगति सपक्षका एकान्तपक्षवन्तः पक्षे सगरुतः वयोऽपि पक्षिणोऽपि कदपथे न पन्था इत्यपथम् कुत्सितमपदमिति कदपथं तस्मिन् कुमते गगने च चरन्ति विचरन्ति । इति अपक्षका एकांतपक्षरहिता गरुद्रहिताश्च नो चरन्तीति वदन्ति कथयन्ति । । ७० ।।
अर्थ-हे जगद्वन्द्य! निश्चय से आपकी स्तुति के बल का अवलम्बन लेकर मैं कल्याणकारी निज आत्मा में विचरण करता हूं, संसार में नहीं । ठीक ही है पंखों से सहित पक्षी और एकान्तपक्ष से सहित दुराग्रही मानव भी कुमार्ग में विचरण करते हैं। पक्षरहित मनुष्य और पंखरहित पक्षी कुमार्ग में (आकाश में) विचरण नहीं करते हैं ऐसा ज्ञानी जन कहते हैं । । ७० ।।
(१०)