________________
असीति- हे ईश! हे आप्त! त्वं निजानुभवादिसमाधितः निजानुभवादिरेव समाधिर्ध्यानं तस्मात् हेत्वर्थे पञ्चमी, आधितो मानसिकव्यथारूपात् 'पुंस्याधिर्मानसी व्यथा' इत्यमरः । भवतः संसारात् द्रुतं शीघ्र स्खलितवान् निवृत्तः। असि वर्तसे, इति मत्वा तदाप्तये तस्य संसारनिवर्तनस्याप्तिः प्राप्तिस्तस्यै सुधृतिमन्तः सुधैर्ययुक्ता जितपरीषहा इति यावत् ये मुनयो यतयस्तेऽपि सदा शश्वत् स्वनिरताः स्वस्मिन् आत्मनि निरता नितरां लीनाः सन्तीति शेषः।। ६५।।
अर्थ- हे ईश! हे आप्त! आप निजानुभवनरूप समाधि- ध्यान से मानसिक व्यथारूप संसार से निवृत्त हुए हैं, ऐसा मानकर जो उत्तम धैर्य से युक्त मुनि हैं वे भी सदा स्वनिरत-आत्मलीन रहते हैं ।।६५।।
[६६ ] विधिनंगाशनिरीश! सुराजते, कुमतकक्षदवो मुनिराज! ते ।
शशिशितं सुखदं शुचिशासनं, भवतु मे सततं सहसासनम् ।। मुनिराज! ईश ! ते शशिशितम् सुखदम् शुचिशासनम् कुमतकक्षदवः विधिनगाशनिः सुराजते (तत्) मे सततम् सहसा आसनम् आश्रयं) भवतु।।
. विधीति- हे ईश! हे मुनिराज! मुनीनां राजा मुनिराजस्तत्सम्बुद्धौ 'राजाहःसखिभ्यष्टच्' इति टचसमासान्तः। ते तव शशिशितं शशीव शितं शुक्लं शशिशितं चन्द्रवदुज्ज्वलं सुखदायकं शुचिशासनं निरवद्यशासनं । विधिनगाशनिः विधय एष कर्माण्येव नगाः पर्वतास्तेषामशनिवज्रः । कुमतकक्षदवः कुमतानि विरुद्धमतान्येव कक्षाणि वनानि तेषां दवो दावानलः। ' वने च वनवह्नौ च दवो दाव इहेष्यते' इत्यमरः। सुराजते सुशोभते । अतस्तत् तव शुचिशासनं मे स्तोतुः सततमनारतं सहसा झटिति आसनमाश्रयो भवतु आस्यत उपविश्यते यस्मिन् तत् आसनं आश्रय इति यावत्।। ६६ ।।
अर्थ- हे ईश! हे मुनिराज! चंद्रमा के समान उज्ज्वल आपका सुखदायक निर्मलशासन कर्मरूप पर्वतों के लिये वज्र तथा मिथ्यामतरूपी वनों के लिये दावानल के समान सुशोभित है, अतः वह निरन्तर मेरा आसन-आधार रहे।।६६ ।।
_[६७] जननसागरशोषणभाकरः, तृषितजीवनदोऽसिशुभाकरः ।
खझषजाल इतीह सुगी येते. सुमुनिना ह्यमुनाप्यथ गीयते।। भगवन् ! इह (भुवि) जननसागरशोषणभाकरः शुभाकरः तृषितजीवनदः खझष जालः अस्ति इति यतेः सुगीः (वर्तते) अथ हि सुमुनिना ह्यमुना अपि गीयते (भगवान)।
(१०७)