________________
स्वभावात् स्खलितो विचलितो भवति । अतः गभीरो गम्भीरो न हि, निश्चयेन नास्ति। त्वं तु यत् यस्मात् सुखदं शर्मप्रदं निजधाम निजतेजो न त्यजसि नो जहासि। अतो गभीरतमोऽतिशयेन गभीर इति गभीरतमो लोकोत्तरधैर्यशाली । असि वर्तते।।६१।।
___ अर्थ- हे अमन! हे भावमन से रहित! इस जगत् में वह समुद्र चन्द्रमा के संयोग से स्वकीय गांभीर्य से विचलित हो जाता है। अर्थात् चन्द्रमा के दर्शन से समुद्र उद्वेलित हो जाता है। अतः वह गंभीर नहीं है किन्तु आप व्यर्थ ही अपने सुखदायकधाम-तेज अथवा स्थान का त्याग नहीं करते, अतः गम्भीरतम हैं।।६१।।
- [६२] जिगमिषु निकटं तव ना विनाः, स नियमेन जडो ननु ना विना ।
दृगिह बीजमजा अवनाविना, नहि सतां सुफलेऽमलिना विना।। हे अजाः!इनाः विनानाः तव (युस्माकं) निकटं नियमेन विना जिगमिषुः ना ननु स जड: (एव अस्ति) (सत्यमेव) इह अवनौ बीजम् विना सतां अमलिना दृक् सुफले नहि (स्यात्।।
जिगमिषुरिति- हे अजा:!जन्मरहिताः,हे इनाः! ईशितारः हे विनाः! विशेषेण नाः पूज्याः,हे नाः हे जिनाः! ‘भर्तेन्द्र इन ईशिता' इति धनञ्जयः। ‘इन: पत्यौ नृपे सूर्ये' 'नकारो जिनपूज्ययोः' इति च विश्वलोचनः । यो ना पुमान् — ना पुमान् पुरुषो गोधः' इति धनञ्जयः। नियमेन संयमेन संविदा ज्ञानेन व्रतेन 'नियमो निश्चये बन्धे यन्त्रणे संविदि व्रते' इति विश्वलोचनः विनाऽन्तरेण तव युष्माकं निकटं समीपं जिगमिषु- गन्तुमिच्छु स ननु निश्चयेन जडोऽज्ञानी वर्तत इति शेषः। उचितमेतत् । इह अवनौ पृथिव्यां, बीजं विना गोधूमादिबीजमन्तरेण सतां सज्जनानां। अमलिना स्वच्छा दृक् दृष्टिः सुफले शोभनफले नहि स्यात्। यथा. बीजं विना सफलं न प्राप्यते तथा व्रतनियमादिना विना जिनानां नैकट्यं न प्राप्यत इति भावः।। ६२।।
___ अर्थ- हे जन्मातीत! हे नाथ! हे अतिशयपूज्य जिनदेव! जो पुरुष व्रतनियमादि के बिना आपके निकट जाना चाहता है, वह निश्चय से जड- अज्ञानी है। उचित ही है-इस पृथिवी में बीज के बिना सज्जनों की निर्मलदृष्टि सुन्दरफल पर नहीं हो सकती।
भावार्थ- जिस प्रकार बीज के विना उत्तमफल प्राप्त नहीं हो सकता, उसी प्रकार व्रत-नियमादि के विना पूज्य जिनराजों की निकटता प्राप्त नहीं हो सकती।।६२।।
_ [६३ ] त्वयि रुचिं च विना शिवराधनम्, भवतु केवलमात्मविराधनम्। नगविदारणवत् शिरसा यते! , मतमिदं जगतां स्वरसायते ।।
(१०५)