________________
[५४] समयसारत ईशन सारतः, सविकलो विषयाज्जडसारतः।
जगति मक्षिकयैव सदादृतं, मलमलं भ्रमरेण सदादृत! ।। हे सदादृत! हे ईश! सारतः समयसारतः न सविकल:(किन्तु विषयात् जडसारतः (सविकलः) असि (उचितमेव) जगति सदा मक्षिकया एव मलं आदृतम् भ्रमरेण अलम् (तिरस्कृत मित्यर्थः) ।।
समयेति- हे सदादृत! सद्भिः सज्जनैः सदा सर्वदा आदृतः सन्मानितस्तत्सम्बुद्धौ । हे ईश! हे नाथ! त्वं सारतः श्रेष्ठात् समयसारतः शुद्धात्मस्वरूपात् न सविकलोः रहितः किंतु जडसारतोऽचेतनप्रधानात् विषयात् पञ्चेद्रियविषयाद् रूपादेः सविकलो रहितोऽसीति शेषः। उचितमेतत् जगति लोके मलं मक्षिकयैव सदा शश्वत् आदृतं सस्पृहं स्वीकृतं भ्रमरेण षट्पदेनाअलं नो ।। ५४।।
अर्थ-हे सत्पुरुषों से सन्मानित! हे ईश! आप श्रेष्ठतम समयसार - शुद्धात्मस्वरूप से रहित नहीं हो- परिपूर्ण हो, किंतु अचेतनों में प्रधानभूत पञ्चेद्रियों के विषयों से रहित हो । ठीक ही है, संसार में मल-विष्ठा मक्खी के द्वारा ही सदा आदृत होता है, भ्रमर के द्वारा नहीं ||५४।।
[५५] प्रवचनेऽचिति साऽ प्रतिमानता, ननु मतात्र सता शुचिमानता।
तव विदं हि हठाद्यदसंग! ताः, समयकाः स्वयमीश्वर संगताः ।। हे असंग! ईश्वर! अत्र तव अचिति प्रवचने सा अप्रतिमा नता शुचिमानता ननु सता मता यत् (यस्मात्) (तत्र अयं हेतुः) तव विदम् हि ताः समयकाः हठात् स्वयं संगता।
प्रवचन इति- हे असङ्ग! न विद्यते सङ्गो यस्य तत्सम्बुद्धौ । हे निर्ग्रन्थ! हे ईश्वर! हे नाथ! अत्र जगति तव भवतः अचिति पुद्गलपर्यायत्वात्, जडे प्रवचने वक्तृत्वे वाण्यां सा प्रसिद्धा अप्रतिमानता न विद्यते प्रतिमानं सादृश्यं यस्याप्रतिमानं तस्य भावोऽप्रतिमानताऽनुपमता ननु निश्चयेन सता साधुना मताऽभ्युपगता शुचिं निर्मलतां आनता प्राप्ता । यत् यस्मात् कारणात् ताः विस्तृताः समयकाः समया एव समयकाः पदार्थाः स्वयं स्वतो हठात् प्रसह्य तव विदं ज्ञानं हि निश्चयेन संगताः प्राप्ताः। ज्ञानबाहुल्येन तव प्रवचनमनुपमानं विद्यते इति भावः ।।५५।।
अर्थ-हे निर्ग्रन्थ! हे नाथ! यहाँ आपकी अचेतन वाणी में निश्चय से जो प्रसिद्ध अनुपमता सत्पुरूषों ने स्वीकृत की है तथा निर्मलता को प्राप्त है, उसमें कारण यह है कि जगत् के समस्त पदार्थ आपके ज्ञान में हठ पूर्वक स्वयं प्राप्त हुए हैं।
भावार्थ-आप सर्वज्ञ हैं, अतः आपकी जड़ वाणी भी जगत् में उपमा से रहित है।।५५।।
(१०१)