________________
कन्दरः' इति विश्वलोचनः। कुमदतापितविश्वककन्धरः कुमदेन कुत्सिताहङ्कारेण तापितं यद् विश्वकं भुवनं तस्य कन्धरो जलदे ऽसि । 'कन्धरः पुंसि जलधरे' इति विश्वलोचनः। विधिवनानलकः विधिवनं कर्मारण्यं तस्य अनलको वह्निरसि। कथंभूतः? भयङ्करो भयोत्पादक: प्रचण्ड इति यावत्। भयवते भयोपेताय जगते भुवनाय हि निश्चयेन अभयङ्करोऽसि अभयप्रदातासि ।।४२।। ___अर्थ - हे भगवन् ! आप विषयों में आसक्त इन्द्रियरूपी हाथियों के लिए अंकुश हैं। खोटे मदों से संतापित जगत् के लिये मेघ हैं। कर्मरूपवन को भस्म करने के लिए प्रचण्ड दावानल हैं और भयभीत जगत् के लिये अभय प्रदान करने वाले हैं ||४२।।
[४३] . गतगतिः सगतिश्च सदागति, र्मम तपोऽनलदीप्तिसदागतिः ।
भव भवोप्यभवो भवहानये, निजभवो गतमोहमहानये! ।। हे! अये! भगवन् ! गतगतिः सगतिः सदागतिः च असि (अतः) मम तपोनलदीप्ति सदागतिः भव। गतमोहमहान् निजभवः भवः (अपि असि) (अतः) मम भवहानये अभवः अपि(भव)।
गतगतिरिति - अये भगवन्! त्वंगतगतिः गता नष्टा गतयो नरनारकाद्यवस्था यस्य तथाभूतोऽसि । त्वं सगतिः गत्या ज्ञानेन सहितः सगतिः असि। ‘गतिर्दशायां गमने ज्ञाने मर्माऽभ्युपाययोः' इति विश्वलोचनः। किंच सदागतिः सदीश्वरोऽसि । 'सदागतिर्गन्धवाहे निर्वाणेऽपि सर्दीश्वरे' इति विश्वलोचनः। मम स्तोतुर्मुनेः तपोऽनलदीप्तिसदागतिः तप एवानलो वह्निस्तस्य दीप्तौ सदागतिः समीरणो वायुरिति यावत् भव। भवोऽपि श्रेयोरूपोऽपि अभवो न श्रेयोरूप इति विरोधः पक्षे नास्ति भवो जन्म संसारो वा यस्य एवंभूतस्त्वं मम भवहानये भवस्य संसारस्य हानिस्तस्यै भव। अथवा त्वं मम भवहानये संसारहानये अभवः आसीः। लङ्मध्यमैकवचने भूधातुप्रयोगः। 'भव: श्रीकण्ठसंसारश्रेयःसत्ताप्तिजन्मसु' इति विश्वलोचनः। गतमोहमहान् गतो विनष्टो मोहो यस्य गतमोहः स चासौ महानिति गतमोहमहान् गतमोहत्वान्महानिति यावत् अथवा गतमोह इति सम्बुद्ध्यन्तं पृथक् पदम्। निजभवो स्वयंभूरसि ।।४३ ।।
अर्थ - अये भगवन् ! आप नरकादि गतियों से रहित हो, ज्ञान से सहित हो, ईश्वर हो, मेरी तपरूपी अग्नि को प्रदीप्त करने के लिए वायु हो, कल्याणरूप होकर भी कल्याणरहित (पक्ष में संसार से रहित) हो। अतः आप मेरे संसार को नष्ट करने के लिये हों, मोह के नष्ट हो जाने से आप महान् तथा स्वयंभू हो ।।४३।।
(६५)