________________
स्वस्वरूप को
विधि - कर्म को नष्ट करने वाले होने से कर्म से जलते - जलाते नहीं हो ।
निजीशीतलता को छोड़कर जलाने लगता है, परन्तु आप
—
भावार्थ - कर्मरूप पुद्गल, अपना प्रभाव रागी -द्वेषी जीवों पर ही डालते हैं, वीतराग पर नहीं ||३८||
[३९]
,
सुरमणी प्रथमा प्रगुणावलिः, तव परा च शुचिः सुगुणावलिः । विरमतीव रतिश्च सति त्वयि त्रिभुवनप्रगताऽपि सती त्वयि ! ।। अयि देव! तव प्रथमा प्रगुणावलिः सुरमणी परा च शुचिः सुगुणावलिः (किन्तु ) त्वयि सति रतिः इव (प्रथमा) विरमति ( परन्तु) त्रिभुवनप्रमता अपि सती (विरोधः) ।
सुरमणीति - अयि देदं ! प्रगुणावलिः प्रकृष्टगुणानां श्रेष्ठगुणानामावलिः पङ्क्तिस्तव भवतः प्रथमैका सुरमणी शोभना रमणी सुरपणी श्रेष्ठभार्या । अस्तीति शेषः । शुचिः समुज्ज्वला सुगुणावलिः कीर्तिश्च तव परा द्वितीया भार्यास्ति । अनयोराद्या रतिरिव सति प्रशस्ते त्वयि भवति विरमति विशेषेण रमते तु किन्तु द्वितीया त्रिभुवनंप्रगतापि जगत्त्रयगामिन्यपि सती पतिव्रतेति विरोधः ।। ३९ ।।
अर्थ - अये देव! उत्तमगुणावली आपकी प्रथम सुभार्या है और उज्ज्वलकीर्ति द्वितीय सुभार्या है। इनमें प्रथम सुभार्या तो रति की तरह एक आप में ही विशेषरूप से रमती है, द्वितीय सुभार्या त्रिभुवन में जा कर भी सती है। यह कैसा विरोध है ? ||३९||
परन्तु
[४०]
परिचयात् तव यत्त्वयि मे मनो, विशति शामितवामवमे ! मनो! | सुरनरैर्मुनिभि र्यशसामिते, नदपतौ नदवत् सहसाऽमिते ।। हे शामितवामवमे! मनो! तव परिचयात् सुरनरैः मुनिभिः यशसाम् इते त्वयि मे यत् मनः सहसा अमिते नदपतौ नदवत् विशति ।
परिचयादिति - हे शामितवामवमे! वामः काम एव वमिरग्निर्वामवमिः शामितो विध्यापितो वामवमिर्येन तत्सम्बुद्धौ । 'वामः सव्ये हरे कामे' 'वमिः स्यात्पावके पुंसि ' इति च विश्वलोचनः । हे मनो! हे भगवन्! तव परिचयात् परिचयकारणात् सुरनरैर्देवमनुष्यैः मुनिभिर्यतिभिः यशसां कीर्तीनाम् इते प्रापिते त्वयि मे स्तोतुर्मनो हृदयं सहसा झटिति अमिते सुविस्तृते नदपतौ सागरे नदवत् महानदीव विशति प्रविशति मम मनो यत् त्वयि विशति तत् तव परिचयादेव विशति । सततं तव गुणचिन्तनं हि परिचयः ।। ४० ।।
(६३)