________________
[४६]
मतिरिता भवतो मम सा दरं, पदयुगे शरणे तव सादरम् । स्वपिति मातुरसौ सुखधातरि, शिशुरिहाङ्क इवाभयदातरि ।। सुखधातरि अभयदातरि मातुः अङ्के असौ शिशुः इव हे शरण्य ! भवतः दरम् इतासा मम मतिः तव शरणे पदयुगे सादरम् स्वपिति ।
मतिरिति हे शरण्य ! सुखधातरि सुखधारके अभयदातरि भयाभावदायके. मातुर्जनन्या अङ्के क्रोडे शिशुरिव बालक इव भवतः संसारात् दरं भीतिं ' दरोऽस्त्री भीतिगर्तयो:' इति विश्वलोचनः । इता गता सा प्रसिद्धा मम स्तोतुः मतिः प्रज्ञाः शरणे रक्षके ‘शरणं गृहरक्षित्रो:' इत्यमर:, तव पदयुगे चरणयुगले सादरं ससन्मानं यथा स्यात्तथा स्वपिति । भवभ्रमणाद् भीता मम मतिर्भवच्चरणयुगले विश्रान्तेति भावः । । ४६ ।।
अर्थ - हे शरण्य ! सुखधारक एवं अभयदायक माता की गोद में शिशु के समान मेरी बुद्धि संसार से भयभीत हो शरणभूत आपके चरणयुगल में आदर के साथ शयन कर रही है - लीन हो रही है ||४६ ||
[४७]
स्वकमयं ह्ययि नोऽलभमानतः, किमु सुखी विकलः किल मानतः । उपगतोऽभयमेव च दुःखत, इह भवे सहितो भवदुःखतः । ।
जिन प्रसंगे - अयि नः मनुज ! अयं (जिनः ) किल मानतः विकलः किमु नो सुखी । दुःखतः अभयम् एव च उपगतः इव भवे भवदुः खतः असहितः । (मम प्रसंगे ) दुःखतः भयम् एव उपगतः इह भवे भव दुःखत सहितः मानतः (विज्ञानतः) विकलः स्वकम् अलभमानतः सन् किमु सुखी ।
स्वकमिति - जिने स्वस्मिन् च वैशिष्ट्यं प्रदर्शयति । (जिनप्रसंगे ) हि निश्चयेन हे ! अयं जनः किल मानतो गर्वात् विकलो रहितः किमु नो सुखी ? अपि तु सुख्येव । भवदुःखतः सांसारिकदुःखात् अभयमेव चोपगत एव भवे संसारे भवदुःखतः जन्मदुःखतः असहितो रहितः। (मम प्रसङ्गे) दुःखतो भयं एवोपगत इहभवे भवदुःखतः सहितः । मानतो विज्ञानतो विकलः स्वकम् आत्मानम् अलभमानतः सन् अयं किमु सुखी ? अपि
तु न ।
।। ४७ ।।
अर्थ - (जिनदेव के प्रसङ्ग में) हे मेरे मानव ! यह जिनेन्द्रदेव मान गर्व से रहित हैं, तो क्या सुखी नहीं हैं ? दुःख से अभय को ही प्राप्त हुए के समान संसार में जन्म सम्बन्धी दुःख से क्या रहित नहीं हैं ? ( अपने प्रसङ्ग में) दुःख से भय को प्राप्त हुआ नव इस भव में जन्म सम्बन्धी दुःख से सहित है, मान . विज्ञान से रहित है फलस्वरूप आत्मस्वरूप को प्राप्त नहीं होता हुआ क्या सुखी है ? अर्थात् नहीं है || ४७||
-
(६७)
—