________________
स्मितवीचीनां मन्दहसितसन्ततीनां सुलीला सुन्दरशोभा तया सतां सत्पुरुषाणां लीलया सह अनायासेनैव विदितं ज्ञातं यत् त्वयि हि निश्चयेन मुदम्बुधिः प्रमोदपारावरः। नटायते नट इवाचरति कल्लोलितो विद्यत इति भावः। इति हेतोः अहमपि स्तुतिकारोऽपि अपटाय वस्त्ररहिताय निर्ग्रन्थायेति यावत्। ते तुभ्यं प्रणतो नम्रीभूतोऽस्मीति भावः ।।१८।।
अर्थ - भगवन् ! आपके अधरोष्ठ सम्बन्धी मन्द मुस्कानों की सुन्दर लीला से ही सत्पुरुषों को यह अनायास विदित हो गया है कि आप में आनन्द का सागर लहरा रहा . है इसलिये मैं भी निर्ग्रन्थमुद्रा का धारक आपके लिये प्रणत हूँ -नमस्कार करता हूँ।।।१८।।
[१९] सति तिरस्कृतभास्करलोहिते, महसि ते जिन! वि.सकलो हिते ।
अणुरिवात्र विभो! किमु देवान! वियति भं प्रतिभाति तदेव न ।। हे जेन देव विभोनाते अत्र तिरस्कृतभास्कर लोहिते, हिते सति, महसि सकलः विः अणुः इव प्रतिभाति भं तदेव वियति (अणुः इव) किमु न प्रतिभाति?)। - सतीति - हे जिनदेव! विभो! न! अत्र भुवि तिरस्कृतभास्करलोहिते तिरस्कृतो न्यक्कृतो भास्करस्य रवेर्लोहितः प्रकाशो येन तस्मिन् हिते हितकारिणि सति प्रशस्ते ते तव महसि तेजसि केवलज्ञानधाम्नि सकलो वि संपूर्ण: आकाशः अणुरिव प्रतिभाति प्रतिभासते। वियति अनन्ताकाशे भं नक्षत्रं किमु तदेव नक्षत्ररूपमेव अल्पमेवेति यावत्। न प्रतिभाति ?अपि तु प्रतिभात्येव । यथानन्ताकाशे नक्षत्रमेकं स्वल्पतरं प्रतिभाति तथानन्ते तव केवलज्ञाने सकलं गगनं स्वल्पतरं प्रतिभाति ।। १९।।
__ अर्थ - हे जिनदेव! हे विभो! हे पूज्य! इस पृथिवी पर सूर्य के प्रकाश को तिरस्कृत करने वाले आपके केवलज्ञानरूप तेज में सम्पूर्ण आकाश अणु के समान प्रतिभासित होता है। ठीक ही है क्योंकि अनन्त आकाश में एक नक्षत्र क्या अणु के समान नहीं जान पड़ता? ||१९।।
[२०] त्वयि जगद् युगपन्मुनिरंजने, लयमुपैति भवं च निरंजने ।
परममानसुमेयतया तया, सरसिवीचिवदेव न वार्तया ।। (गुरो!) त्वयि मुनिरंजने निरंजने जगत् युगपत् लयं भवं च (ध्रुवतां च) तया परममानसुमेयतया उपैति। न वार्तया सरसि वीचिवत् एव।