________________
[१३]
जिनगतस्त्वयि योऽपि मुदालयं, स्वमयते सह स स्वविदालयम् । गुणकुलैरतुलैर्ननु संकुलम्, कलकलं विकलय्य भृशं कुलम् ।। अयि नि ! त्वयि यो मुदा लयम् गतः ननु स स्वविदा सह कुलम् भृशम् विकलय्य अतुलैः गुणकुलैः संकुलम् कलकलम् स्वम् आलयम् अयते ।
जिनेति - अयि जिन ! हे जिन ! योऽपि यः कश्चन जनः, मुदा हर्षेण त्वयि भवति लयं लीनतां गतः प्राप्तः, स पुरुषः ननु निश्चयेन स्वविदा आत्मज्ञानेन सह कुलं शरीरं भृशमत्यन्तं विकलय्य पृथक्कृत्य तत्स्नेहं त्यक्त्वेत्यर्थः । अतुलैरनुपमैः गुणकुलै गुणसमूहैः ज्ञानदर्शनादिगुणसमूहैरिति यावत् । संकुलं व्याप्तं कलकलं कला मधुराः कला यस्य तं स्वं निजं आलयं गृहं आत्मस्वभावं अयते प्राप्नोति । जिनवर ध्यानेन ध्यातुरात्मज्ञानं जायते तेन च स शरीराद्विरज्यानन्तगुणगणैर्निभृतं ज्ञानानन्द स्वभावमात्मानं श्रयत इति भावः ।।१३।।
अर्थ - हे जिन ! जो भी पुरुष हर्ष से आप में लीनता को प्राप्त होता है वह आत्मज्ञान के साथ शरीर को अत्यन्त पृथक् कर अनुपम गुणसमूहों से व्याप्त एवं मनोहर कलाओं से युक्त स्वकीय गृह को प्राप्त होता है ।
भावार्थ वीतराग जिनेन्द्रदेव के ध्यान से आत्मज्ञान होता है। आत्मज्ञान के द्वारा शरीर को पृथक् अनुभव करता हुआ ध्याता अनेक गुणसमूह से व्याप्त आत्मगृह–स्वकीयशुद्धस्वभाव को प्राप्त करता है ।। १३ ।।
[१४]
असितकोटिमिता अमिताः तके, नहि कचा अलिभास्तव तात ! के । वरतपोऽनलतो बहिरागता, सघनधूम्रमिषेण हि रागता ।।
हे तात! तव के ( मस्तके) तके (ते एव तके) अमिता: असितकोटिम् इताः अलिभाः कचाः नहि (सन्ति) (किन्तु ) वरतपोऽनलतः सघन धूम्रमिषेण रागता हि बहिः आगता ( इति मन्ये) !
असितेति - हे तात! हे पूज्य ! तव भवतः के शिरसि 'शिरोमूर्धोत्तमाङ्गं कं' इति धनञ्जयः । तके त एव तके स्वार्थेऽकच् प्रत्ययः । असितकोटिं न सिता असिताः शुक्लेतरपदार्थास्तेषां कोटिं कोटिसंख्यां बाहुल्यमिति यावत् । इताः प्राप्ताः अमिता: अपरिमिताः अलिभा भ्रमरवत्कृष्णाः कचाः केशा न हि वर्तन्ते किन्तु वरतपोऽनलतः वरतप उत्कृष्टतप एवानलोऽग्निस्तस्मात् सघनधूम्रमिषेण सघनश्चासौ धूम्रश्च सघनधूम्रः सान्द्रधूम्रस्तस्य मिषेण व्याजेन रागता रागस्य भावो रागता रागपरिणतिः हि निश्चयेन बहिः आगता समायाता। अपह्नवालङ्कार । शिरसि दृश्यमाना एते कृष्णाः कचा न किन्तु ध्यानानलतः समुत्थितधूम्रमिषेण रागादयो विकृतयो बहिरागताः इति भादः ।। १४ । ।
(20)