________________
नयनेति - हे न! हे जिन! 'नकारो जिनपूज्ययोः' इति विश्वलोचनः। (तव) नयद्वयं नययोर्द्वयं नयद्वयं निश्चयव्यवहाराभिधाननययुगलं नयनयुग्मनिभेन नेत्रयुगलसादृश्येन समयनिश्चयहेतुः समस्यागमस्य पदार्थस्य वा यो निश्चयो निर्णयस्तस्य हेतुः हेतुरूपं इतीत्थं कलयति प्रकटयति यद् यस्मात्कारणात् तदाशयवेदकाः तदभिप्रायज्ञातारः, वयं व्यपवेदका इव व्यपगतो नष्टो वेदो येषां तथाभूता इव निजं स्वस्वरूपं अयामः प्राप्नुमः। हे जिन! भवत्रणीतं नययुगलं नेत्रयुगलमिव शास्त्रस्य पदार्थमात्रस्य वा निर्णयकारणं वर्तते, इति निश्चित्य वयं वेदातीतजना इव स्वस्वरूपे स्थिरा भवाम इति भावः । 'अयामः' इति परस्मैपदं कथमिति चेत् ? इटकिटकटी गतौ' इत्यत्र प्रश्लिष्टस्य इधातोः परस्मैपदप्रयोगः ।। ६ ।।
अर्थ - हे जिनेन्द्र! आपके निश्चय व्यवहारनयों का युगल, नेत्रयुगल के समान समय- आगम अथवा द्रव्यपर्यायात्मक पदार्थ के निश्चय का कारण है, ऐसा जान. उसके अभिप्राय को जानते हुये हम वेदरहित. पुरुष-अखण्डब्रह्मचारी के समान स्वकीय स्वभाव को प्राप्त होते हैं ।।६।।
अधिपतौ निजचिद् विमलक्षिते, व्यय-भव-ध्रुव-लक्षण-लक्षिते।
मयि निरामयकः सहसा गरेऽवतरतीव शशी किल सागरे ।। निजचिद् विमलक्षितेः अधिपतौ व्ययभव ध्रुव लक्षणलक्षिते मयि गरे निरामयकः भवान् किल सहसा सागरे शशी इव अवतरति!
अधिपताविति - निजस्य स्वस्य या विमलचिद् शुद्धचेतना सैव विमलक्षिति र्निर्मलभूमिस्तस्याः, अधिपतौ स्वामिनि शुद्धचेतनायुक्ते इति यावत्। व्ययः पूर्वपर्यायविगमः भवो नूतनपर्यायोत्पादः, ध्रुवः पूर्वोत्तरपर्याययोर्विद्यमानः सामान्यधर्मः एषां द्वन्दः व्ययभवध्रुवाः त एव लक्षणं तेन लक्षिते सहिते व्ययोत्पादध्रुवात्मके, मयि स्तावके, गरे विषे निरामयको नीरोग इव भवान् सागरे समुद्रे शशीव मृगाङ्कः इव सहसा झगिति अवतरति अवतीर्णो भवति। यथा विषमध्ये पतितो विषवैद्यो निरामयो भवति तथोत्पादव्ययनौव्यात्मकत्वेन भङ्गुरात्मनि मयि ध्येयरूपेण प्रविष्टो भवान् सुस्थिरो भवति । यथा च सागरेऽवतीर्णः शशी सागराद् भिन्नो भवति तथा च मय्यवती) भवान् मदीय रागादिद्वेषैर्दूषितो न भवतीति भावः । किलेति वाक्यालङ्कारे ।।७।।
अर्थ - जो स्वकीय चेतनारूपी निर्मलभूमि का स्वामी है तथा उत्पाद-व्यय-ध्रौव्यरूप लक्षण से सहित है ऐसे मुझमें, विष के बीच नीरोग रहने वाले आप समुद्र में चन्द्रमा के समान सहसा अवतीर्ण हुए हैं।
(७४)