________________
भावार्थ - जिस प्रकार विष के मध्य रहता हुआ भी विषवैद्य विषजन्य विकार से रहित होता है और जिस प्रकार लहराते हुए जलमय समुद्र में प्रतिविम्वरूप से प्रविष्ट चन्द्रमा उससे निर्लिप्त रहता है। उसी प्रकार ध्येयरूप से मुझमें प्रविष्ट हुए आप मेरे विकारों से रहित हैं ||७||
[८]
स्तुतिरियं तव येन विधीयते तमुभयावयतो न विधी यते !! गजगणोऽपि गुरुर्गजवैरिणम्,नखबलैः किमटेद् विभवैरिनम् । ।
हे ते येन धीमता मुनिना ) तवं इयम् स्तुतिः विधीयते तं उभयौ विधी (द्वव्यभावमयौ) न अयतः नखबलैः विभवैः इनम् गजवैरिणम् गुरुः गजगणः अपि किम् अटेत् ? (नकदापि इति ।
स्तुतिरिति -हे यते ! हे मुनीन्द्र ! येन धीमता मुनिना तव भवतः इयं स्तुतिर्नुतिगुणगानमिति यावत् । विधीयते क्रियते तं स्तोतारं, उभयौ द्रव्यभावभेदेन द्विप्रकारौ विधी कर्मणी न अयतः नो प्राप्नुतः । ' उभयशब्दस्य द्विवचनं नास्तीति कैयर अस्तीत हरदत्तः' इति हरदत्तमतेन द्विवचनान्तप्रयोगः । एतदेव काकुप्रयोगेण समर्थयति - गुरु स्थूलाकारोऽपि गजगणो हस्तिसमूहः नखबलैर्विभवै र्नखबलसामर्थ्येन किं इनं वनस्वामिनं गजवैरिणं सिंहं अटेत् गच्छेत् ? पुरस्तात् गन्तुं किं शक्नुयात् ? अपि तु न शक्नुयात् ।।८।।
1
अर्थ - हे यतीन्द्र ! जिस बुद्धिमान् के द्वारा आपकी यह स्तुति की जाती है, उसके पास दोनों प्रकार के कर्म नहीं जाते हैं। क्या हाथियों का समूह स्थूल होने पर भी अपने नख बल के वैभव से वनराज सिंह के सामने जाता है ? अर्थात् नहीं जाता ||८||
[९]
निगदितुं महिमा ननु पार्यते, सुगत! केन मनोमुनिपार्य! ते। वदति विश्वनुता भुवि शारदा, गणधरा अपि तत्र विशारदाः । ।
हे आर्य! मुनिप! मनो! ते महिमा ननु केन निगदितुं पार्यंते ( इति भुवि विश्वनुता शारदा वदति तत्र विशारदाः गणधराः अपि ( वदन्ति ) ।
निगदितुमिति - हे सुगत! सुष्ठु गतं ज्ञानं यस्य तत्सम्बुद्धौ, हे मनो! हे मनुरूप ! हे मुनिप! हे मुनिश्रेष्ठ ! हे आर्य! हे पूज्य ! ननु यथार्थतः । ते भवतो महिमा माहात्म्यं केन जनेन निगदितुं कथयितुं पार्यते शक्यते ? अपि तु न केनापि । वागगोचरं तव माहात्म्यमस्तीति भावः। इति भुवि पृथिव्यां विश्वनुता विश्वैर्नुता स्तुता सर्वस्तुतेति यावत्। शारदा सरस्वती वदति । किञ्च तत्र स्तुतौ विशारदा निपुणतरा गणधरा अपि
(७५)