________________
भविष्य को विजित किया है तथा जो महामुनीन्द्र हैं, ऐसे है जिनेन्द्र ! अपरिमित गुण समूह को प्राप्त करने वाले आपके लिये मेरा निश्चय से नमस्कार है। इस नमस्कार से मैं ऐसा अनुभव करता हूँ कि मैं जिन के समान हो गया हूँ- आपके स्तवन से मैं जिन बनूँगा, इसमें संशय नहीं है || २ ||
[३]
परपदं ह्यपदं विपदास्पदं, निजपदं नि पदं च निरापदम् ।
इति जगाद जनाब्जरविर्भवान्, ह्यनुभवन् स्वभवान् भववैभवान् । । विपदास्पदम् अपदम् हि परपदम् । निरापदम् निजपदम् नि (निश्चयेन) पदम् च । इति स्वभवान् भववैभवान् हि अनुभवन् जना ब्जरविः भवान् जगाद ।
परपदमिति - हि निश्चयेन परपदं ज्ञातृस्वभावादात्मनो भिन्नं पदं विपदास्पदम् विपदामापत्तीनां आस्पदं स्थानं, अत एव अपदं अत्राणं अरक्षकं 'पदं व्यवसितत्राणस्थानलक्ष्म्यङ्घ्रिवस्तुषु' इत्यमर: / च समुच्चये, निजपदं ज्ञातृस्वभावमात्मतत्त्वं नि निश्चयेन निरापदं आपदाभ्यो निर्गतं अत एवं पदं विश्रामस्थानं अस्तीति शेषः । इतीत्थं स्वभवान् स्वस्माद् भवन्तीति स्वभवास्तान् भववैभवान् भवस्य जगतो वैभवा ऐश्वर्याणि तान् अनुभवन् जनाब्जरविः जना एवाब्जानि पद्मानि तेषां रविर्दिनकरः भवान् अर्हन् हि निश्चयतः जगाद स्पष्टं कथयामास । स्वपदमादेयं परपदं च हेयमिति भवान् अब्रवीत् इति भावः । । ३ । ।
अर्थ - निश्चयतः आत्मस्वभाव से भिन्न अन्यपद विपदाओं के स्थान हैं, अतएव अपद-अरक्षक हैं और आत्मस्वभावरूप निजपद विपदाओं से रहित तथा आत्मरमण का स्थान है। परमार्थ से स्वोत्पन्न सांसारिक वैभवों का अनुभव करते तथा जनरूपी कमलों को विकसित - प्रफुल्लित करने के लिये सूर्यस्वरूप आपने ऐसा स्पष्ट कहा है ||३||
"
[४]
पदयुगं शिवदं नु शमीह ते, श्रयतु चेत्स्वपदं स समीहते । अधनिनो धनिनं हि धनाप्तये, किमु भजंति न लब्धधनाप्त! ये ।।
हे लब्धधन! आप्त! चेत् शमी स्वपदम् समीहते ( तर्हि ) न नु ते शिवदम् पदयुगं श्रयतु । इह (जगत) अधनिनः धनाप्तये किमु धनिनम् न भजन्ति ? ( भजन्त्येवेति )
पदयुगमिति - हे लब्धधन ! लब्धं प्राप्तं धनमनन्तचतुष्टयरूपं येन तत्सम्बुद्धौ । हे आप्त! अर्हन्! चेत् यदि स प्रसिद्धः शमी शाम्यतीति शमी शान्तिस्वभावो जनः इह
(७२)