________________
[९६] चाप्ता ह्यसावसुरताऽसति तपसि रतैस्तपस्विभिः सुरता ।
संस्तुत - नृसुरासुराताः श्रियस्तु न स्वजा भासुरताः ।। हि असौ असुरता सुरता च असति तपसि रतैः तपस्विभिः आप्ता । (हे) संस्तुतनृसुरासुर ! ताः स्वजाः भासुरताः श्रियः तुन (प्राप्ता)।
चाप्ता इति- हि निश्चयेन, असौ एषा, असुरता असुराणां भावोऽसुरता भवनत्रिकदेवपरिणतिः, सुरता सुराणां भावः सुरता वैमानिकदेवपरिणतिः, असति तपसि कुतपसि रतैर्लीनः तपस्विभिः तपोधनैः आप्ता लब्धा। हे संस्तुत नृसुरासुर नरश्च सुराश्च असुराश्चेति नृसुरासुरास्तैः संस्तुतस्तत्सम्बुद्धौ। ताः प्रसिद्धा दुर्लभतमा इति यावत्। स्वजाः स्वस्मिन् जायन्ते इति स्वजाः आत्मोत्पन्नाः। भासुरताः भायां दीप्तौ सुरताः सुलीनाः श्रियस्तु केवलज्ञानादिलक्ष्म्यस्तु न आप्ताः इति योजनीयम् ।। ९६।।
अर्थ- निश्चय से यह असुरों और सुरों की पर्याय कुतप में लीन तपस्वियों के द्वारा प्राप्त की गई है, परन्तु हे नर और देवदानवों से संस्तुत भगवन्! वे आत्मोत्थ एवं देदीप्यमान केवलज्ञानादि लक्ष्मियाँ उनके द्वारा प्राप्त नहीं की गई ।।९६।।
[९७]
. किं जितानङ्ग ! ते न ! मते मतं मतं वितानं गतेन ।
श्रीरिता नं गतेन नेति कमभजताऽनङ्ग! तेन ।। जितानङ्ग! अनङ्ग! न! नं गतेन तेन कम् अभजता श्रीः न इता मतं वितानं गते ते मते किम् इति न मतम् ?
किमिति- हे जितानङ्ग! हे जितकाम! हे अनङ्ग! हे अशरीर! हे न! हे जिन! नं जिनं गतेन प्राप्तेन तेन कं आत्मानं अभजता अनाराधया श्री ज्ञानादिलक्ष्मीः न इता न प्राप्ता। जिनं भजमानोऽपि य आत्मानं न ध्यायति, स केवलज्ञानलक्ष्मी न लभत इति भावः।मतं समादृतं वितानं विस्तारं गतेते मते धर्मे किं इति न मतं न स्वीकृतं.? अपितु स्वीकृतमेव ।।९७।।
अर्थ- हे मदनविजयी! हे अशरीर!(शरीर सम्बन्धी राग से रहित) हे जिन! जिनदेव को प्राप्त होकर भी जो आत्मा की आराधना नहीं करता है-आत्मा के ज्ञायक स्वभाव की ओर दृष्टि नहीं देता है उसे केवलज्ञानरूप लक्ष्मी प्राप्त नहीं होती । इस प्रकार समादृत विस्तार को प्राप्त हुए आपके मत में क्या नहीं माना गया है? !!९७।।