________________
[९२]
सङ्गेऽङ्गेऽङ्गेरतः शिवाङ्गच्युतो योऽङ्ग ! स सङ्गरतः । किं दूरःसङ्गरतस्त्वमतोऽकाद्विरम सङ्गरतः । ।
( ) असङ्ग ! अङ्ग ! य: शिवाङ्गच्युतः, स अङ्गे रतः सः किं सङ्गरतः दूरः ? अतः त्वं सङ्गरतः सङ्गरतः अकात् विरम |
सङ्ग इति- अङ्ग असङ्ग ! हे निर्ग्रन्थ ! यः शिवाङ्गच्युतः शिवस्य मोक्षस्याङ्गानि निमित्तानि सम्यग्दर्शनादीनि तेभ्यः च्युतः पतितः सन् सङ्गे परिग्रहे अङ्गे शरीरे च रतो लीनः स किं सङ्गरतः आपदः दूरो दूरवर्ती अस्तीति शेषः । अतः त्वं सङ्गरतो विपत्तिरूपात्, सङ्गरतः सम्यग्गरलरूपात् अकात् अघात् पापात् विरम विरतो भव । ' सङ्गरस्तु प्रतिज्ञाजिक्रियाकारे विषापदोः' इति विश्वलोचनः । । ९३ ।।
अर्थ- हे निर्ग्रन्थ! जो मोक्ष के निमित्तभूत सम्यग्दर्शनादि से च्युत हो परिग्रह और शरीर की संभाल में लीन है, वह संगर - आपत्ति से दूर है क्या ? अतः तू विपत्तिरूप एवं विषरूप पाप से विरत हो ।। ९२ ।।
[९३]
सतः समयसारसतः सम्त्वलयोऽदूराः सहसा रसतः । परान्न दृक्साऽरसतः स्वतः सुधा स्रवति सारसतः । ।
सतः अलयः समयसारसतः अदूराः सन्तु रसतः (च) सहसा (दूरा:) (सन्तु) । सा दृक् परात् न (लभ्यते) । अरसतः स्वतः सारसतः (सा दृक् ) सुधा स्रवति ।
सत इति- अलयो भ्रमरा गुणग्राहिणो जना इति यावत् सतः श्रेष्ठात् समयसारसतः समय आत्मैव सारसं कमलं तस्मात् अदूरा निकटस्था सन्तु भवन्तु । रसतः शरीराच्च सहसा दूराः सन्तु । सा प्रसिद्धा भव्यजनलभ्या दृक् सद्दृष्टिः परात् आत्मभिन्नाच्छरीरादेर्न लभ्यत इति शेषः । किन्तु अरसतः न विद्यते रसो रसनेन्द्रियविषयो यस्य सः अरसस्तस्मात् रसरहितात् स्वतः स्वस्मात् तसिलन्तप्रयोगः । लभ्यते । यथा सुधा पीयूषं सारसतश्चन्द्रात् स्रवति तथा दृक् स्वतः संवति प्रकटीभवति । 'सारसं सरसीरुहं' इत्यमरः । ' सारसं पङ्कजे क्लीबं सारसः पक्षिचन्द्रयोः' इति विश्वलोचनः । । ९३ ।।
अर्थ - भ्रमर (गुणग्राहीजन) समीचीन, समय - आत्मारूपी सारस कमल से अदूर रहें - निकटस्थ रहें और रस शरीर से दूर रहें। वह सम्यग्दर्शन पर से नहीं प्राप्त होता, रस - पौद्गलिक गुण से रहित स्वतः स्वकीय आत्मा से प्राप्त होता है। जैसे कि सुधा - अमृत सारस:- • चन्द्रमा से झरती है, अन्य पाषाणादि से नहीं ।। ९३ ।।
-
—
(४६)